________________
॥ खरतरगच्छ पट्टावली-२ ॥ वोपहासो जातः । तदा लज्जिता ब्राह्मणा गुरूणां चरणयोनिपतिताः, इत्थं कथयामासुश्च-भो स्वामिनो यूयं महन्तः। इतः परमस्मिन् नगरे ये केपि भवत्परंपरायां सूरयः समेष्यन्ति तेषां प्रवेशोत्सवं वयं करिष्यामहे इति । तदानीं भूयसी जिनमतप्रभावना जाता । तथा पुनरन्यदा उच्चनगरे गुरवः समागतास्तत्र प्रवेशोत्सवे जायमाने जनानामतिबाहुल्यात् तद्ग्रामाधीशस्य मुगलस्य पुत्रो वाहनान्निपत्य मृतः, तदा श्राद्धाः सर्वेपि विमनस्का जाताः, अथ तेषां मुखात् श्री गुरुभिरेतत् स्वरूपं विज्ञाय जिनमतप्रभावनार्थ मद्यमांसभक्षणमस्मै न कारयितव्यमित्युक्त्वा व्यंतरप्रयोगेण षण्मासान् यावत् स मृतो मुगलपुत्रः सजीवः कृतः। तथा पुनर्नागदेवनामा श्राद्धः अंबड इत्यपर नामा एकदा गिरनार पर्वते उपवास त्रयं कृत्वा अंबिकां समाराध्य च 'हे ! मातरस्मिन् समये भरतक्षेत्रे युगप्रधानपदधारकः कः सरिरस्ति, यमहमात्मनो गुरुत्वेन स्थापयामीति' पृष्टवान्। तदा अंबिकादेव्या तस्य हस्ते सुवर्णाक्षरैः-दासानुदासा इव सर्वदेवाः, यदीय पादाब्जतले लुठंति । मरुस्थले कल्पतरुः स जायात्, युगप्रधानो जिनदत्तसूरिः ॥ १॥ इत्येतकाव्यं लिखित्वा प्रोक्तं ' य एतानि तव हस्ताक्षराणि प्रकटयिष्यति स सूरियुगप्रधानो ज्ञेयः । ततः स श्राद्धः स्थाने २ बहुभ्यः सूरिभ्यो हस्तमदर्शयत् परं कोपि अक्षराणि वाचयितुं न समर्थो बभूव । अथैकदा स पाटणनगरे त्रांबावाडाभिधपाटके श्री जिनदत्तसूरीणां पार्श्व समागत्य हस्तं दर्शितवान्, गुरुभिस्तद्हस्तलिखितस्वर्णाक्षराणामुपरि वासचूर्णप्रक्षेप कृत्वा शिष्याय आज्ञा दत्ता। ततो वाचितानि शिष्येण तान्यक्षराणि । तदा स नागदेवः परमभक्तिमान् श्रावको बभूव । एवं विधाः कलिकाले युगप्रधान-पदधारकाः श्री गुरवो जाताः। तथा पुनरेकदा व्याख्यानं कुर्वद्भिः श्री गुरुभिर्दी!पयोगेन समुद्रमध्ये निमज्जतं श्रावकस्य पोतं विज्ञाय स्वस्मरणं कुर्वतां जनानामुपकारार्थ व्याख्यानपृष्टकं मध्ये मुक्त्वा पक्षिरूपेण समुद्रे गत्वा पोतस्तारितः। एवं श्राद्धस्य कष्टं दूरी कृत्य पश्चादागत्य व्याख्यानं कर्तु समुपविष्टा ज्ञातश्चेष वृत्तांतः सर्वेरपि लोकः, ततः श्री गुरूणां महामहिमा प्रससार । तथा पुनरन्यदा श्री गुरवः प्रबलप्रवेशोत्सवेन मुलताननगरे समागताः, तदा चतुःपथे स्थितेन पत्तनवास्तव्य परपक्षीय-अंबडनाम्ना श्रावकेण खरतर गच्छोन्नतिमसहमानेन प्रोक्तं-- 'अस्मिन्नगरे इत्थमाडंबरेण भवद्भिरागम्यते परं अगहिल्लपत्तने यद्येवं भवदागमनं स्यात्तदा ज्ञायते' इति । अथैतत् श्रुत्वा गुरुभिरुक्तं 'भो ! वयमनेनैव प्रकारेण तत्रायास्यामः, परं त्वं तैललवणादिकं स्कंधे वहन् सन्मुखं मिलिष्यसीति' । अथ गुरवः कियद्भिर्वासरैरणहिल्लपत्तने समाजग्मुः । तदानीं स अंबडश्राद्धो दैववसान्निर्धनो जातः। ततो ग्राहकभयात् मुलतान नगरात् पलाय्य पत्तने समागत्य तैललवणादि व्यापारेणाजीविकां कुर्वन् प्रवेशोत्सवे जायमाने गुरूणां सन्मुखं भिलितः, गुरुभिरुपलक्ष्य शब्दितस्ततो गुरूपरि अति द्वेषं वहन् कपटेन खरतर श्राद्धो बभूव । एकदा श्री गुरुभ्यो विषमिश्रितं शर्कराजलं पायितवान् । ततो गुरुभिर्विषप्रयोगं ज्ञात्वा तात्य रायभणशालिक गोत्रीय आभूनामकं सुख्यश्राद्धं प्रति तत्स्वरूपं निवेद्य घटिकायोजनगाभिना क्रमेलकेन पाल्हणपुरात् विपापहारिणीमुद्रामानाय्य निर्विषैर्जाताः। अथ स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org