SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ शा । खरतरगच्छ पट्टावली-२॥ वज्रस्थंभस्थितं नानामंत्राम्नायमयं पुस्तकं मंत्रलेन प्रकटीकृत्य गृहीतवान् । तथोज्जयिन्यां महाकालप्रासादस्तंभस्थं, द्वितीयं सिद्धसेनदिवाकरस्य पुस्तकं प्रथमागतविद्ययाऽऽकृष्य जग्राह । तथा एकदा उज्जयिन्यां व्याख्यानमध्ये श्राविकारूपं विधाय छलनार्थनागताश्चतुःपष्टियोगिन्यः पट्टकेषु निवेश्य मंत्रवलेन कीलिताः, ततो व्याख्यानाते पट्टकेभ्य उत्थातुभशक्ताः सत्यो गुरुं प्रत्यूचुः-स्वामिन् ! भवता वयं प्रत्युत च्छलिताः, अथ कृषां विधाय विमोच्यास्तदा गुरुभिर्वचनं गृहीत्वा योगिन्यो मुक्ताः । अथ ताभिर्वरं सप्तकं दत्तं तद्यथा १ प्रतिग्रामं खरतर श्राद्धो दीप्तिमान भविष्यति । २ प्रायेण खरतर श्रावको निर्धनो न भावी । ३ संघे कुमरणं न भविष्यति । ४ अखंड शीलपालका साध्वी ऋतुमती न भविष्यति । ५ खरतर श्राद्धः सिंधुदेशं गतः सन् धनवान् भावी । ६ खरतर संघ शाकिन्यादयो न छलियंति। ७ जिनदत्तनाम्नि गृहीते विद्युत्पातादिरुपद्रवो न भावी । इति । पुनर्योगिनीभिरुक्तं-एतद्वचनसप्तकं पालनीयं, येन प्रागुक्तमस्मद्दत्तवरसप्तकं सफलं स्यात् । तद्यथा १ सिंधुदेशं गतैर्गच्छनायकैः पंचनदी साधनं कार्यम् । २ तथा सूरिभिः प्रतिदिनं द्विशत् ( २०० ) वारं सूरिमंत्रजापः कार्यः । ४ खरतर श्राद्धरुभयकालं गृहे वा उपाश्रये वा सप्त स्मरणानि गुणनीयानि । ५ साधुभिनित्यं द्विसहस्र नमस्कार गुणनीयाः। तत्रैकस्मिन्मणिके एको नम स्कार एकं च उपसर्गहरस्तोत्रं एवं यद्गुणनं तत् खिच्चडिका इत्युच्यते । ६ तथा खरतर श्राद्धर्मासमध्ये आचाम्लद्वयं कार्यम् । ७ खरतर साधुभिः सति सामर्थे सदा एकाशनकं कार्यम् । इति । पुनस्ताभिरुक्तं-१ दिल्ली, २ अजमेरु, ३ भरुअच्छ, ४ उज्जैन, ५ मुलतान, ६ उच्चनगर, ७ लाहोर-एतन्नगरसप्तके परिपूर्णशक्तिरहितैः खरतर गच्छनायकै रात्रौ न स्थातव्यमित्युक्त्वा स्वस्थानं जग्मुः। तथा पुनरजमेरुनगरे पाक्षिक प्रतिक्रमणं कुर्वद्भिः श्री गुरुभिः पुनः पुनर्सनत्कारं कुर्वाणा विद्युत् मंत्रबलेन जलपात्रस्याधोभागे रक्षिता, ततः प्रतिक्रमणानंतरं पात्राधोभागात निष्कास्य 'जिनदत्तनाम्नि गृहिते सति नाहं पतिष्यामीति' तद्वरं गृहीत्वा मुक्ता स्वस्थानं गता। तथा पुनरेकदा गुरवो विहारं कुर्वाणा वृद्धनगरं प्राप्ताः, तत्र जिनमतोन्नतिमसहमाना ब्राह्मणा जिनचैत्ये म्रियमाणां गां प्रक्षिपतिस्म । ततो मृता गौः। तां च विलोक्य, ब्राह्मणाः प्रोचुः-अहो जैनानां देवो गोधातक इति । ततो विलक्षीयतः श्रावकैर्गखो विज्ञप्ताः, तदा गुरुभिमंत्रबलेन व्यंतरप्रयोगेण मृता गौः सज्जीकृता; ततः सा गौः स्वयमेव जिनगृहादुत्थाय शिवदेवगृहे शिवमूरुपरि आगत्य निपतिता । ततो नगरे ब्राह्मणानामती. B. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003435
Book TitleKhartargaccha Pattavali Sangraha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherBabu Puranchand Nahar
Publication Year
Total Pages76
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy