SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ । खरतरगच्च पदावली-२॥ प्रबोधमूर्तिरिति दत्तनामा क्रमेण वाचकपदं प्राप्तः, ततः सं० १३३१ आश्विन वदि पंचम्यां संक्षेपेण कृतपट्टाभिषेकः । पश्चात् सं० १३३१ फाल्गुणवदि अष्टम्यां स्वातिनक्षत्रे जालोरवास्तव्य माल्हूगोत्रीय साह खीमसीकेन पंचविंशति सहस्र (२५०००) रूप्यक व्ययेन सविस्तरं विहितपदमहोत्सवः । एवंविधः श्री जिनप्रबोधसूरिनिर्मलचारित्रमाराध्य सं० १३४१ स्वर्ग गतः ॥४८॥ ४९. तत्पट्टे एकोनपंचाशत्तमः श्रीजिनचंद्रसूरिः। तस्य च समियाणाभिधग्रामवास्तव्य छाजहडगोत्रीय मंत्रिदेवराजः पिता, कमलादेवी माता, खंभराय इति मूल नाम । सं० १३२६ मार्गशीर्ष सुदि चतुर्थी जन्म । सं० १३३२ जालोरनगरे दीक्षा। सं० १३४१ वैशाखसुदि तृतीयायां सोमवारे जालोरवास्तव्य माल्हूगोत्रीय साहखीमसीकेन द्वादशसहस्र (१२०००)रूप्यकव्ययेन पदमहोत्सवः कृतः। एवंविधाश्चतुर्नूपप्रतिबोधकाः, कलिकाल-केवलीति विरुदविख्याताः, जितानेकवादिनः, जिनशासनोन्नतिकारिणः, श्रीजिनचंद्रसूरयः सं० १३७६ कुसुमाणाख्ये ग्रामे स्वर्ग गताः ॥४९॥ तद्वारके खरतर गच्छस्य राजगच्छ इति प्रसिद्धिर्जाता । ५०. तत्पट्टे पंचाशत्तमः श्रीजिनकुशलसूरिः। तस्य च समियाणाभिधग्रामवास्तव्य छाजहड गोत्रीय मंत्रि जील्हागरः पिता, जयंतश्रीः माता, सं० १३३० जन्म। सं० १३४७ दीक्षा । स० १३७७ जेष्ट वदि एकादश्यां राजेंद्राचार्येण सूरिमंत्री दत्तः। तदा पाटणवास्तव्य माह तेजपालेन नंदिमहोत्सवः कृतः । चतुर्विंशतिशत (२४००) साधु-साध्वीभ्यः, तथा सप्तशत (७००) वेषधारि दर्शनि प्रमुखेभ्यो वस्त्राणि दत्तानि तथा तस्मिन्नवसरे दिल्लीवास्तव्य महनीयाणगोत्रीय विजयसिंह श्राद्धः तत्रागतस्तेनापि बहुधनव्ययेन नंदिमहोत्सवः कृतः । तथा सं० १३८० साह तेजपाल कृत संधेन साधं शत्रुजयतीर्थे समागतैः गुरुभिर्मानतुंग नाम्नि खरतर वसतिप्रासादे सप्तविंशत्यंगुलप्रमाण श्रीआदिनाथविव-प्रतिष्ठा कृता। तथा भीमपल्लीनगरे भवनपालकारित द्वासप्तति (७२) देवकुलिकामंडित श्रीवीरचैत्यं प्रतिष्ठितम् । तथा जेसलमेरुनगरे जमधवलकारितचिंतामणिपार्श्वनाथप्रतिष्ठा कृता। तथा पुनः जालोरनगरे श्रीपार्श्वनाथप्रतिष्ठा विदिता। तथा आगराभिधनगरनिवासी-श्रीसंघस्य आग्रहेण तत्सार्थे भूत्वा शत्रुजय यात्रां कृत्वा भाद्रपदवदि सप्तम्यां पाटणनगरे आजग्मे । तथा श्रीगुरूणां द्वादशशत (१२००) साधु पटायो जातः, पंचाधिकैकशत (१०५) साध्वी संप्रदायोऽभूत् । तथा श्रीगुरुभिविनयप्रभादिशिष्येभ्य उपाध्यायपदं दत्तं,येन विनयप्रभोपाध्यायेन निर्धनीभूतस्य निज भ्रातुः संपत्तिसिद्धयर्थ मंत्र गर्भितगौतमरासो विहितस्तद्गुणनेन स्वभ्राता पुनर्धनवान्जातः। एवंविधा बहुश्रावकप्रतिबोधकाः, परम जिनधर्मप्रभावकाः, श्रीजिनकुशलसूरयः, सं० १३८९ फाल्गुणवदि अमावस्यां देराउर नगरे अष्टौ दिनानि यावत् अनशनं कृत्वा स्वर्ग प्राप्ताः। ते च अधुनापि " दादौजी" इति नाम्ना सर्वत्र जगति प्रसिद्धाः संति, प्रति नगरं गुरूणां चरणन्यासौ पूज्यते, सोमवत्यां पौर्णमास्यां प्रथमं दर्शनं दत्तं, तेन तद्दिने विशेषेण पूजा प्रवर्तते इति ॥५०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003435
Book TitleKhartargaccha Pattavali Sangraha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherBabu Puranchand Nahar
Publication Year
Total Pages76
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy