SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ [ ३२-४० ] किरातार्जुनीये [ ९.३१] - गन्धमुद्धतरजःकणवाही विक्षिपन् विकसतां कुमुदानाम् । आदुधाव परिलीनविहङ्गा यामिनीमरुदपां वनराजीः ॥ ३२ ॥ अत्रापामिति व्यस्तपदप्रयोगाद् व्यस्तसम्बन्धदोषः । ९७. ) श्लिष्टं यथा - पदान्यन्वयवद्यत्र श्लिष्टानि श्लिष्टमुच्यते । अहं विभूतये शान्तं पार्वतीरमणं भजे ॥ ३३ ॥ अन्यच्च भवभूतेः साहित्यरत्नाकरे - वाक्यदोषाः । कोदण्डसन्नद्धशिलीमुखोऽयं क्षितीश्वरः श्रीविजयस्य हेतोः । सामन्तवीरध्वनिकीर्णजन्यं प्रबुद्धपञ्चास्य इवाविवेश ॥ ३४ ॥ अत्रान्वयवत्पदानां विरचनत्वात् श्लिष्टदोषः । तथा मम्मटः [ काव्यप्रकाशे १.१] काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे ॥ ३५ ॥ अत्राप्यन्वयवत् पदानां विरचनत्वात् श्लिष्टदोषः । रघुवंशे [ ५.३६ ] ब्राह्मे मुहूर्तेति । ॥ ३६॥ १८. ) आगमविरोधि यथा - -- अशास्त्रमुच्यते वाक्यं तदागमविरोधि च । कृताध्वरोऽयं भूपालः कथं स्वर्गं प्रयास्यति ॥ ३७ ॥ अन्यच, किरातार्जुनीये [ १.४४ ] अथ क्षमामेव निरस्तविक्रमश्विराय पर्येषि सुखस्य साधनम् । विहाय लक्ष्मीपतिलक्ष्म कार्मुकं जटाधरः सन् जुहुधीह पावकम् ॥ ३८ ॥ अन्न जटाधरः सन् पावकं जुदुधीति धिक्कारवचनं पतिरेव व्रतं यस्यास्तस्या न योग्यमिति धर्मशास्त्रविरुद्धत्वादागमविरोधिदोषः || Jain Education International ९९. ) यतिभ्रष्टं यथा - मध्ये नाम्नश्च विरतिर्यतिभङ्गः स उच्यते । यथा शिवमहं कर्पूरगौरं प्रणमामि तम् ।। ३९ ।। अन्य, सङ्गीतरत्नाकरे [ ] पुलकित कुचभारभूमध्या तरलसरोरुहपत्रदीर्घनेत्रा । किसलयतनुरङ्गना प्रियं कौसुमनवमाल्यभरा समालिलिङ्ग ॥ ४० ॥ १ किरातार्जुनिये. २ विहंगागा यामिनी° ३ धिःकार ४ संगित रत्नाकरे. For Private & Personal Use Only www.jainelibrary.org
SR No.003431
Book TitleKavi Kaustubh
Original Sutra AuthorN/A
AuthorRajasthan Puratan Granthmala
PublisherRajasthan Puratan Granthmala
Publication Year1968
Total Pages54
LanguagePrakrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy