SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ कविकौस्तुभः । एतेनाखानि शाखानिवहनवहरित्पर्णपूर्णडुमालीव्यालीढोपान्तशान्तव्यथपथिकशां दत्तरागस्तडागः ॥ २५ ॥ इत्यादिषु शब्दार्थयोस्तौल्यहीनत्वात् किं बहुना, पदबाहुल्यादसंमितदोषः । " (५.) अपार्थं यथा - - समुदायार्थशून्यं यत् तदपार्थं समुच्यते । हयबृंहितविस्पर्धि राजते घनकूजितम् ॥ २६ ॥ अन्यच्च, रघुवंशे [ ९.२६]कुसुमजन्म ततो नवपल्लवास्तदनु पट्पदकोकिलकूजितम् । इति यथाक्रममा विरभून्मधुद्रुमवतीमवतीर्य वनस्थलीम् ॥ २७ ॥ तथा च, अत्र कुसुमजन्म ततोऽग्रे नवपल्लवास्तदनु षट्पदकोकिलकूजितमिति यथाक्रमं मधुरात्रिरभूदित्यन्वये, कुसुमजन्मतोऽग्रे पल्लवकारणं कुसुमं न सम्भवतीति हेतोरपरं कोकिलानां कैजितं भ्रमराणां गुञ्जितमित्युक्तं च कविकल्पलतायाम् - गुञ्जारो मिलिन्दानां हेपा हेषा च वाजिनाम् । केका स्यात् केकिनां वाणिः कोकिलानां तु कूजितम् ॥ २८ ॥ सम्भवस्था निबन्धोऽपि निबन्धोऽप्यसतः कचित् । नियमच विशेषेण कवीनां वर्णनं त्रिधा ।। २९ ॥ इति कविरूढनियमतया द्वन्द्वान्तपदस्य प्रत्येकं सम्बन्धादुभयोर्व्यधिकरणादिति समुदायार्थशून्यत्वादपार्थदोषः । ९६. ) व्यस्त सम्बन्धं यथा - - पदानां व्यस्तता यत्र व्यस्तसम्बन्ध उच्यते । शम्भोदेर्याच्छिवं मह्यं पदपद्मं जगद्गुरोः ॥ ३० ॥ अन्यच चन्द्रशेखरस्य काव्यकुतूहले - अम्बरमम्बुनि पत्रमरातिः पीतमहीनगणस्य ददाह । यस्य वधूस्तनयं गृहमब्जा पातु स वो हरलोचनवह्निः ॥ ३१ ॥ अत्रान्वयिपदानां विपर्यासाद् व्यस्त सम्बन्धदोषः । ४ वाणि कोकि.. [२५-११] १ देशां. २ कुजितं. ३ कुजितं. ७ काव्यहले. Jain Education International ५ कुजितं. For Private & Personal Use Only ६ देयात् शिवं. www.jainelibrary.org
SR No.003431
Book TitleKavi Kaustubh
Original Sutra AuthorN/A
AuthorRajasthan Puratan Granthmala
PublisherRajasthan Puratan Granthmala
Publication Year1968
Total Pages54
LanguagePrakrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy