SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ कविकौस्तुभः। [४१-४५] अत्र कौसुमनवमाल्यभरेत्यत्र चरणान्तयतिभङ्गाधतिभ्रष्टदोषः । भर्तृहरौ [ नीतिशतके ४] लमेत सिकतासु तैलमपि यत्नतः पीडयन् पिवेच्च मृगतृष्णिकासुसलिलं पिपासार्दितः । कदाचिदपि पर्यटशशविषाणमासादये नतु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥४१॥ अत्र प्रथमचतुर्थचरणयोर्यतिभङ्गे, छन्दोरत्नावल्याम् - सखे यदि च पष्ठकं तदनु चाष्टकं द्वादशं द्वितीयमपि यत्र वा गुरु च षोडशाद्यान्त्यगौ । चतुर्दशमथ क्रमात् सकलभाग्यवारां निधे श्रुतिद्वयसरीसृपैर्विरतिरङ्ग पृथ्वी मता ॥ ४२ ॥ अत्र पृथ्वीछन्दसि श्रुतिद्वयसरीसृपैरष्टनवभिरक्षरैर्यतिरिति व्याख्यायां सत्या, सिकतासु तैलमित्यत्र प्रतिनिविष्टमूर्खजनचित्तमित्यत्र यतिविच्छेदाधतिभ्रष्टदोषः । ६१०.) न्यूनपदं यथा पदस्य हीनता यत्र वाक्यं न्यूनपदं मतम् । सन्तुष्टः कमलानाथः पापिनां मुक्तिमाददौ ॥ ४३ ॥ पापिनामत्रापिपदं न्यूनम् । अन्यच्च, कविमण्डनस्य ऋतुपञ्चाशिकायाम् - गुञ्जन्तः किल मुकुलेषु मत्तभृङ्गाः संयाते स्मरनृपतौ सितेषु रेजुः । मेरीणां प्रसवितपाटले निदाघे कुर्वन्तो जयनिनदानिव प्रहृष्टाः ॥४४॥ अत्र मत्तभृङ्गा मुकुलेषु रेजुरित्यन्वये मुकुलेण्वित्यत्र पूर्व मालतीनामिति हीनपदोंद्धेतोन्यूँनपददोषः। रघुवंशे [ २.८] लताप्रतानोथितैः स केशैरधिज्यधन्वा विचचार दावम् । रक्षापदेशाद्गुरुहोमधेनोर्वन्यान् विनेष्यन्निव दुष्टसत्त्वान् ॥ ४५ ॥ अत्र केशैरुपलक्ष्यमाण इत्यन्यपदनिक्षेपान्न्यूनपददोषः । १ पीडयेत्. २ पर्यटन् श'. ३ मासादयन्नतु. ४ विछेदा. ५ द्धेतोन्युन ६ दोपः. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003431
Book TitleKavi Kaustubh
Original Sutra AuthorN/A
AuthorRajasthan Puratan Granthmala
PublisherRajasthan Puratan Granthmala
Publication Year1968
Total Pages54
LanguagePrakrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy