________________
सोमेश्वरकविकृता
सज्जन-दुर्जनवर्णना [ कीर्तिकौमुदीकाव्यान्तर्गता]
हृदा यादःपरित्यक्ता नियाला मलयद्रुमाः। अमालिन्यकृतो दीपाः श्रीपात्रं सन्तु साधधः ॥१॥ साधूनां लुब्धता काचिदचिन्त्यैव तथाहि ये। परेषामेव गृह्णन्ति गुणान् भूरिगुणा अपि ॥२॥ रमयन्ति न के नाम सन्तश्छायाद्रुमा इव । पुष्यन्ति स्मितपुष्पं ये सूचितोचैः फलोदयम् ॥३॥ अमृतैर्मानसं मन्ये सम्पूर्ण सततं सताम् । स्यन्देनेव तदीयेन वाचो मुश्चन्ति नार्द्रताम् ॥४॥ अश्रुप्रवर्तकैधूमैरिव किं तैरसाधुभिः। रसवत्यां कवेरुक्तौ मालिन्यं जनयन्ति ये ॥५॥ वृश्चिकानां भुजङ्गानां दुर्जनानां च वेधसा। विभज्य नियतं न्यस्तं विषं पुच्छे मुखे हदि ॥६॥ अस्मिन् कलौ खलोत्सृष्टदुष्टवागवाणदारुणे। कथं जीवेजगन्न स्युः सन्नाहाः सज्जना यदि ॥७॥ निदानं नात्र पश्यामि यदुपेत्यापि दुर्जनाः। आक्रोशन्ति भृशं साधूनध्वगानिव कुकुराः ॥८॥ दोषस्तेन राज्ञेव सह साधनरा सभा। त्याज्याऽवकरभूमीव सहसा घनरासभा ॥९॥ दुर्जनस्तय॑मानस्य साधोरधिकमेधते। भस्मभिर्मुज्यमानस्य मुकुरस्येव चारुता ॥१०॥ आस्तां तावत् कृतक्रोधः, सप्रमोदोऽपि दुर्जनः । कष्टाय जायते दृष्टो रतवानिव वायसः॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org