SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ कर्णामृतप्रपा देव ! त्वमेव जनको जननी त्वमेव स्वामी त्वमेव परमार्थगतिस्त्वमेव । तद्दुस्तरे दुरितवारिधिवारिपूरे मज्जन्तमुद्धर गदाधर पुत्रकं वा ॥ २१५ ॥ त्वमपि न तथा तात ! ध्यातः प्रमादितया मया फलमभिमतं निःशङ्कस्त्वां यथाऽहमिहार्थये । तदपि करुणात्मानं मत्त्वा भवन्तमुपाश्रित स्तदवतु जवान्मामेतस्माद् भवाभिभवाद् भवान् ॥ २१६ ॥ संसारस्थलदुःस्थानां प्राणिनां प्रीतिहेतवे । श्री सोमेश्वरदेवेन कृता कर्णामृतप्रपा ॥ २१७ ॥ www. Jain Education International इति श्रीठक्कुर - सोमेश्वरदेव - विरचिता कर्णामृतप्रपा सुभाषितावली संपूर्णा । * प्रान्ते पुस्तक प्रतिलिपिकर्तृकपद्यद्वयम् । नवाभ्रशरचन्द्रस्तु निर्मिते वत्सरे वरे । चैत्रमास्यसिते पक्षे दशम्यां भूमिनन्दने ॥ १ ॥ षट्पद्रनागरेणेयं महिराजेन धीमता । सुभाषितप्रपा नाम्ना लिखिता रुचिराक्षरैः ॥ २ ॥ यादृशं पुस्तके दृष्टं तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥ ॥ संवत् १५ (१५०९१ ) कल्याणमस्तु ॥ श्रीः ॥ मङ्गलमस्तु ॥ * २७ For Private & Personal Use Only www.jainelibrary.org
SR No.003405
Book TitleKarnamrut Prapa
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1963
Total Pages54
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy