SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ कर्णामृतप्रपा दुर्जनानां द्विजिह्नत्वख्यातिरेषा मृषैव यत् । विश्वोपतापिनां तेषामुचिता सप्तजिह्वता ॥ १२ ॥ अस्मिन्नसमयारण्ये खलवेतालसङ्कले । चरतः सज्जनालापाः शिखाबन्धी भवन्तु मे ॥ १३ ॥ सोऽस्ति कश्चन यो दृष्टोऽप्यशुद्धानां विशुद्धये । तेsपि तिष्ठन्ति ये दृष्टाः शुद्धानामप्यशुद्धये ॥ १४ ॥ * संसारस्थितिवर्णना । * अहो ! संसारकारान्तर्मायानिगडितात्मनाम् । जायते जातु जन्तूनां न कथञ्चन निर्वृतिः ॥ १ ॥ केचिद् द्युम्नाय धावन्ति प्रद्युम्नाय च केचन । Rights धर्मा सर्वाभिप्रेतहेतवे ॥ २ ॥ मोदमानोऽन्तरात्मैव साक्षी यत्कर्म शर्मणे । तमप्युपेक्षते धर्ममहो ! मूढमना जनः ॥ ३ ॥ यस्मिन् सन्निहिते वह्नि-विषाद्याः प्रभवन्ति न । धर्मादप्यपरस्तस्मात् कः शरण्यः शरीरिणाम् ? ॥ ४ ॥ धर्मसिद्धौ ध्रुवा सिद्धिर्द्युम्न- प्रद्युम्नयोरपि । दुग्धोपलम्भे सुलभा सम्पत्तिर्दधि- सर्पिषोः ॥ ५ ॥ उच्चैर्गर्वे समारोप्य नरं श्रीराशु नश्यति । दौःस्थ्यदत्तावलम्बोऽथ स तस्मादवरोहति ॥ ६॥ जितं लक्ष्मि ! त्वया यस्यै जनस्तमपि सेवते । धनं नकारपूर्वं यत् प्रदत्ते प्रेतनाथवत् ॥ ७ ॥ धनस्याधर्मलब्धस्य मुग्धो लाभेन तुष्यति । सुकृतस्य दुरापस्य न तु हानिमवेक्षते ॥ ८ ॥ आसाद्यते यया स्वर्गः श्रिया सन्मार्गदत्तया । त्यक्त्वा तामप्यधर्मेण मूर्खाः क्रीणन्ति दुष्कृलिम् ॥ ९ ॥ Jain Education International For Private & Personal Use Only 28 www.jainelibrary.org
SR No.003405
Book TitleKarnamrut Prapa
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1963
Total Pages54
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy