________________
Jain Education International
कर्णामृnter
गायति नृत्यति विभवक्षीवः, प्रतिपदमुद्धतबुद्धिरतीव । परतरुणीहरणाय च धावन्,
न विधेर्वेत्ति खलस्य हि भावम् ॥ ९८३ ॥
कोऽयं कुमते ! परिजनगर्वः, श्रयति हि लक्ष्मीलुब्धः सर्वः । त्वामयमधनं मुक्त्वा लोकः,
पुनरपि यास्यति धनिनामोकः ॥ १८४ ॥
धनमिदमास्ते यावदधीनं,
पुरपि तिष्ठति यावत्पीनम् । तावज्जागृहि सुकृतविधाने,
निजमपि परगं स्यादवसाने ॥ १८५ ॥
यद् यदुपात्तं वित्तमकृत्यैर्, गिलितं तदखिलमपि दुर्भृत्यैः । हतमतिरधुना सोऽयं दीनः,
सहजे सीदति कृतकौपीनः ॥ ९८६ ॥
भवति विदग्धः किमपि विदित्वा, धीरंमन्यश्चित्तमजित्वा । नैतत् पश्यति यन्मम कार्ये,
कोऽयं विलसति विपुलापाये ॥ ९८७ ॥
ये दिवसस्य प्रथमे यामे, ष्टा नष्टास्तेsपि विरामे । येषां भवने कलभविलासः,
संप्रति तेषामपि वनवासः ॥ १८८ ॥
क्क हरिश्चन्द्रः कान्त्यजदास्यं,
क पृथासूनुः क च नटलास्यम् । क च वनकष्टं कासौ रामः,
कटरे विकटो विधिपरिणामः ॥ १८९ ॥
For Private & Personal Use Only
२३.
www.jainelibrary.org