SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ठकुरसोमेश्वरदेवविरचिता समजनि सफलं जन्म ममाद्य, ___ त्वमपि कृतार्थ मानस ! माद्य । हरधरणीधरधवलतरङ्गा, यदियं प्रत्यासीदति गङ्गा ॥१९॥ अविरलविगलल्लालाजालं, - शशधरकरनिकरोज्ज्वलवालम् । निजमिदमधुना मातर्गङ्गे !, वपुरिह निहितं भवदुत्सङ्गे ॥ १९१ ॥ यदि तव हृदयं दहति स पापः, संसारज्वरजनितखापः। शिवनयनाग्निकथितं पथ्यं, तत् पिब गङ्गाजलमिति तथ्यम् ॥ १९२ ॥ सुकृतं सुकृतं तस्य भणामः, परवनितायां यस्य न कामः। निपतति मूद्धनि गङ्गापाथः, चेतसि नित्यं स जगन्नाथः ॥ १९३॥ वहति विपद्यपि यः परितोषं, __ जल्पति पिशुनस्यापि न दोषम् । सततं तनुधनवानपि दाता, जगति स मर्त्यमिषेण विधाता ॥ १९४ ॥ भवदवदाहोपद्रवभग्नः, तस्मिन् परमानन्दे मग्नः। सुकृती निवसति निर्मलनीरे, । भगवति भागीरथि! तव तीरे ॥ १९५ ॥ कोऽपि कथञ्चन मज्जति जन्तुः, व्यसनावर्ते विरचितमन्तुः। सुखमिह किश्चन न हि संसारे, तदितस्त्वं मामव कंसारे !॥ १९६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003405
Book TitleKarnamrut Prapa
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1963
Total Pages54
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy