________________
ठक्कुर सोमेश्वरदेव विरचिता
स्वामिन्नधतापते ! गमयता पातालमूले बलिं
स्वस्यायं भवता लघुत्वपदहः स्पष्टीकृतः केवलम् । यस्मादेष पुरः स्थितेऽर्थिनि जगन्नाथे त्वयि क्षोणिका मात्रोत्सर्जनलज्जया खयमधो गन्तुं ततोऽपीच्छति ॥ १७३ ॥
२२
Jain Education International
वित्तं तदखिलमपि परिगलितं, प्रादुर्भूतं शिरसि च पलितम् । तदपि न हृदयं विषय वितृष्णं, संसेवितुमभिलष्यति कृष्णम् ॥ ९७७ ॥
इयमपि दशनश्रेणी पतिता, सा च समाप्ता जगदधिपतिता ।
तज्जगदाश्रयमाश्रय देवं,
हृदय ! विरंस्यसि दुःखादेवम् ॥ १७८ ॥
सत्पात्रेषु न दत्तं दानं,
मन्ये तत् तव दास्थ्यनिदानम् । प्रणतः कचिदपि न स गोविन्दः, तदयं प्रहरति कालपुलिन्दः ॥ १७९ ॥
तृणमिव गणयति जगदपि मूढः, चञ्चलकमलामदमधिरूढः । विपदि तु पतितः प्रतिजन मास्यं, दीनः पश्यति याति च दास्यम् ॥ १८० ॥ सधनः कुरुते जगदुपहासं,
रचयति नीचैः सह संवासम् । विभवे नीते भवति विनीतः,
चरति रजन्यामृणभयभीतः ॥ १८९ ॥
तावत् पापं चरति हताशः, कण्ठे यावन्न पतति पाशः । पाशे पतिते निन्दति दैवं,
वदति च हन्त । करिष्ये नैवम् ॥ १८२ ॥
For Private & Personal Use Only
www.jainelibrary.org