________________
मत्रिकर्मचन्द्रवंशावलीप्रबन्ध ।
[४३८-४४३
एतदेव कविराह
आविर्भाव-तिरोभावौ विहितौ वर्णसन्ततेः।
वीक्ष्य निर्धारितं श्रीमजिनदत्ते तदुत्तमम् ॥ ४३८ व्याख्या-नागदेवेन वर्णसन्ततेदेवतालिखिताक्षरश्रेणेः, आविर्भावः प्रकटीभावः, तिरोभावोऽदृश्यीभवनम् - तावा5 विर्भावतिरोभावौ, विहितौ श्रीजिनदत्तसूरिणा कृतौ, वीक्ष्य विलोक्य, श्रीजिनदत्ते श्रीजिनदत्तसूरी, तयुगप्रधानत्वमुत्तममुत्कृष्ट निर्धारितं निर्णीतम् ॥ ४३८
श्रुत्वेति विस्मितः स्माऽऽह जहागीरजलालदी।
तदानायभुवामेषां मया नाम तदर्पितम् ॥ ४३९ व्याख्या- इति पूर्वोक्तं श्रुत्वा, विस्मितो विस्मयोपेत आश्चर्यभाग् , जहागीरजलालदी:, आह स्म अब्रवीत् । तर्हि " भो मन्त्रिन् ! एषां श्रीजिनचन्द्रसूरीणां तेषां श्रीजिनदत्तसूरीणां य आम्नाया उपदेशास्तेषां भूः स्थानं ये ते तदाम्नायभुवस्तेषां तदाम्नायभुवाम् , मया तद्यगप्रधानेति नाम अर्पितं दत्तम् । 'आम्नायः कुल आगमे उपदेशे च' - इत्यनेकार्थः। उपदेशे यथा-'निराम्नायो मन्त्रः स्फुरति न हि कस्यापि नियतम् ।' जहागीरेति पदं देवताकृतसान्निध्यवत्त्वसूचकं यवनशास्त्रप्रसिद्धम् ॥ ४३९
जिनसिंहसूरिरेवं नाम देयं सदर्थकम् ।
मानसिंहस्य शत्त्येति सिंहतुल्यस्य सर्वथा ॥ ४४० व्याख्या- हे मन्निन् ! मानसिंहस्य, सर्वथा सर्वप्रकारेण, शक्त्या बलेन, सिंहतुल्यस्य सिंहसमस्य, एवमितीवार्थऽव्ययम् , यथा श्रीजिनचन्द्रसूरेयुगप्रधान इति नाम दत्तं तथा जिनसिंहसूरिरिति सदर्थकमन्वर्थ सत्यार्थमिति यावन्नाम देयम् । एवमिति प्रकृतपरामर्शप्रकारे वाऽर्थोपदेशनिर्देशनिश्चयाङ्गीकारेषु । इवार्थे - अग्निरेवं विप्रः ॥ ४४०
इति सामन्तचक्रेण तसलीमपुरस्सरम् ।
मन्त्रिणाऽपि प्रभोर्वाक्यं मौलौ मालामिवाऽऽददे ॥ ४४१ व्याख्या- प्रभोः साहेरिति वाक्यम् , सामन्तास्त्रिचतुरदेशाधिपतयस्तेषां यच्चक्रं समूहस्तेन सामन्तचक्रेण, तथा मन्त्रिणा अपि. अपिशब्दः समुच्चये, तसलीमपुरस्सरं तसलीमेति यवनभाषया दक्षिणपाणिशिरःसंयोगपूर्विका विनयप्रतिपत्तिः, तत्पुरस्सरं तत्पूर्वकम् , मौलौ शिरसि, मालामिव कुसुमस्रजमिव, आददे खीचके । यथा मौलौ माला स्वीक्रियते तथा सर्वैरपि तत्साहिवाक्यं खीकृतमित्यर्थः ॥ ४४१ ७ अथ साहिदत्तं पदद्वयमेकेनैव वृत्तेन कविराह -
युगप्रधानतैतेभ्यो दत्ताऽथाऽऽचार्यता पुनः । मानसिंहस्य सद्बुद्धरस्माभिरधुना ततः ॥ ४४२ सन्मुहूर्ते महामात्य ! त्वयाऽपि जनसाक्षिकी ।
कर्तव्येयं प्रवृत्तिः खशास्त्ररीत्या विचक्षण ! ॥ ४४३ - युग्मम् । व्याख्या- हे विचक्षण ! विद्वन् ! महामात्य ! अस्माभिरधुना साम्प्रतम् , एतेभ्यः श्रीजिनचन्द्रसूरिभ्यः, युगप्रधानता दत्ता । अथाऽनन्तरं सद्बुद्धेः कुशाग्रीयमतेर्मानसिंहस्य, पुनराचार्यता दत्ता आचार्यपदं ददे । ततस्तस्माद्धेतोः, सन्मुहूर्ते शोभनघटिकाद्वयरूपे, त्वयाऽपि जनसाक्षिकी सकललोकप्रत्यक्षा इयं प्रवृत्तियुगप्रधानत्वाचार्यत्वयोर्वार्ता, खशास्त्ररीत्या आत्मीयजैनागममर्यादया, कर्तव्या विधेया। 'रीतिस्तु पित्तले वैदादौ लोहकिट्टे सीमनि' इत्यादि । यथा भवतां शासने पदव्याः प्रदानं पूर्व पूर्वजैश्चक्रे तथा भवताऽपि विधेयमिति भावः ॥ १४२-४४३
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org