________________
४४४ - ४५० ]
पाठकश्रीजयसोमविरचित इत्युक्ते साहिना मन्त्री वदति स्मेति कोविदः।
अमारिघोषणा कार्या कार्येऽस्मिन् धर्मवृद्धये ॥४४४ व्याख्या-साहिनेति पूर्वोक्त उक्त कथिते सति, कोविदो विचक्षणो मन्त्री श्रीकर्मचन्द्रः, इति वदति स्म अब्रवीत् । इतीति किम् ? हे प्रभो! अस्मिन् कार्ये पदवीदानलक्षणे, धर्मवृद्धये सुकृतपुष्टया अमारिघोषणा कार्या विधेया ॥ ४४४
सुखकृद्धर्मकृत्यं स्यात् किं पुनः कृपया युतम् ।
क्षीरं खादु भवेदेव सितायाः सङ्गतौ किमु ॥ ४४५ व्याख्या-हे प्रभो! धर्मकृत्यं धर्मकार्य सुखकृत् सुखकारि स्यात् , किं पुनः कृपया करुणया युतमन्वितम् ! यतः क्षीरं दुग्धं स्वादु मृष्टं भवेदेव स्यादेव, किमु किं सितायाः शर्करायाः सङ्गतौ संयोगे सितसंयोगे किं वाच्यमित्यर्थः ॥ ४४५
ततः श्रीस्तम्भतीर्थीययादोनायकयादसाम् ।
आवर्ष त्याजिता हिंसा साहिना दीर्घदर्शिना ॥४४६ व्याख्या-ततो मन्त्रिकथनानन्तरम् , साहिना श्रीस्तम्भती यानि श्रीस्तम्भतीर्थे जातानि, यानि यादोनायकयादासिलवणाब्धिमत्स्यास्तेषाम् , आवर्ष-वर्षम् आ मर्यादीकृत्य-आवर्षम् , हिंसा त्याजिता दूरीकारिता। किंभूतेन साहिना! दीर्घदर्शिना सुपर्यालोचितपरिणामसुन्दरकार्यकारिणा । स्तम्भतीर्थीयेति 'वृद्धाच्छः' इति छः शेषेऽर्थे ॥ ४४६
दिनमेकमिहाप्यस्तु जीवरक्षासमन्वितम् ।
प्रार्थनाभङ्गकारित्वं शिक्षितं न मनस्विभिः ॥ ४४७ व्याख्या-पुनर्मन्त्रिणा लाभपुरेऽप्येकं दिनममारिः पाल्यतामित्युक्ते सति, इहापि लाभपुरेऽपि, जीवरक्षासमन्वितं दयासमेतं दिनमेकमस्तु । लाभपुरेऽपि दिनमेकं जीवहिंसा वार्यतामिति साहिना स्वीकृतम् । यतो मनखिभिः प्रशस्तमनोभिः, प्रार्थनाया याचनायाः, भङ्गकारित्वं भङ्गकरणशीलत्वम् , न शिक्षितं नाभ्यस्तम् । ते मनखिनः प्रार्थितमवश्यं कुर्वन्त्यतः साहिरिदमपि मन्युक्तं खीचकारेति भावः ।
_ 'भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायिनि । संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः ॥'
भूमनि गोमान् , निन्दायां ककुमती कन्या, प्रशंसायां मनखी, नित्ययोगे सानुमान् गिरिः, अतिशायिनि स्तनकेशवती स्त्री, संसर्गे दण्डी, अस्तिमान् सम्पन्न इत्यर्थः । इत्युक्तेरत्र प्रशंसायां विनिः ॥ ४४७
आतोद्यानि सुहृद्यानि साहिना महवासरे।
वितीर्णानि स्वकीयानि पुण्यवृद्ध्यै पुनस्तदा ॥ ४४८ व्याख्या-पुनर्भूयः, तदा महवासर उत्सवदिने, साहिना श्रीअकबरेण, खकीयानि सुहृयानि- अतिशयेन मनोह- 25 राण्यातोद्यानि वादित्राणि, पुण्यवृद्ध्यै सुकृतपुष्टये, वितीर्णानि दत्तानि ॥ ४४८
ततश्च सचिवः स्वामिधर्मधौरेयताधरः।
श्रीरायसिंहभूपालपादजाहं समागमत् ॥ ४४९ व्याख्या-ततश्च साहिकथनानन्तरम्, सचिवो मन्त्री, खामिनो धर्मो येषां ते खामिधर्माणस्तेषां मध्ये धौरेयो धुर्यो मुख्य इत्यर्थः, खामिधर्मधौरेयस्तद्भावः खामिधर्मधौरेयता, तां धरति बिभर्तीति खामिधर्मधौरेयताधरः । 'धुरो यड्डकौ' इति ॥ ढक । प्रधानखामिधर्मेत्यर्थः । अत एव श्रीरायसिंहभूपालस्य पादजाहं पादमूलम् , समागमदागतः । 'तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ' इति कर्णादेर्जाहच मूलेऽर्थे पादस्य मूलं पादजाहम् ॥ ४४९
सर्व वृत्तान्तमाख्याय सायुक्तं साहसाग्रणी।
प्राप्य सैंहं महादेशं सिंहः प्रक्षरितोऽभवत् ॥ ४५० व्याख्या-साहसं दुष्करकर्म तेनाग्रणीर्मुख्यः साहसाग्रणीः, सर्व साहिनोक्तं सायुक्तं वृत्तान्तं वार्तामाख्याय 2s कथयित्वा, यथा श्रीजिनचन्द्रसूरीणां साहिना युगप्रधान इति पदं दत्तम् , श्रीमानसिंहानां श्रीजिनसिंहसूरीति पदं दत्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org