________________
४३१-४३७]
पाठकश्रीजयसोमविरचित अतोऽस्मदाशयालादहेतवेऽतिविशारदः।
खपट्टे मानसिंहाह्नः स्थाप्यो युष्माभिराहतैः॥४३१ व्याख्या- हे गुरो ! अतो हेतोः, अस्मदाशयस्य अस्मच्चेतस आह्वादहेतव आनन्दनिमित्तम् , युष्माभिः श्रीपूज्यैराहतैः सादरैः, अतिविशारदोऽतिशयेन विद्वान् मानसिंहाहो मानसिंहनामा खपट्टे स्थाप्यः ॥ ४३१
पूज्यैरुक्तमिदं युक्तमुक्तं श्रीपातिसाहिना।
इष्टं वैद्योपदिष्टं चेत्याख्यातं सत्यतां गतम् ॥ ४३२ व्याख्या-पूज्यैरुक्तमिदं श्रीपातिसाहिना युक्तं न्याय्यमुक्तम् । इष्टं मनोऽभिलषितं दुग्धपानादि वैद्यनाऽप्युपदिष्टं कथितं वैद्योपदिष्टं चेल्याख्यातं कथितम् , सत्यता नीतं तथ्यीकृतमित्यर्थः । अस्माकमेतदिष्टमासीत् श्रीपातिसाहिनाऽप्युक्तम् , ततः पयसि शर्कराक्षेप इव, पाशितेरङ्गितमिव, शिशयिषोः शय्यालाभ इव, पिपासोः पीयूषपानमिव, क्षुधितस्य भोज्यप्राप्तिरिवेत्यादि बहूक्तं गुरुभिः ॥ ४३२
साहिना धीसखः प्रोचे मनिन् ! श्रीसूरिमन्त्रिणाम् ।
वदोत्कृष्टाभिधानं किं विधेयं जैनदर्शने ॥ ४३३ व्याख्या-ततः साहिना धीसखो मन्त्री प्रोचे प्रोक्तः-हे मन्त्रिन् ! श्रीसूरिमन्त्रिणामुत्कृष्टाभिधानं प्रकृष्टं नाम जैनदर्शने जैनधर्मे किं विधेयम् ? किमिति प्रश्ने, त्वं वद ब्रहि ॥ ४३३
अथाऽख्याद्धीसखः स्वामिन् ! प्रसिद्धं जिनशासने ।
अस्मद्गच्छेऽपि नामास्ति पुरा हि विबुधार्पितम् ॥ ४३४ व्याख्या-अथ साहिकथनानन्तरं धीसखो मत्र्याख्यात् अचीकथत् - हे खामिन् ! प्रभो! जिनशासने प्रसिद्धं विख्यातमस्मद्गच्छेऽपि श्रीखरतरगच्छेऽपि, पुरा पूर्वम् , हि स्फुटम् , विबुधैर्देवैरर्पितं दत्तं नाम आख्या, अस्ति विद्यते ॥ ४३४
किं नाम कथमाख्यातं केन कस्य गुरोरिति ।
साहिनोक्ते च वृत्तान्तं सचिवः स्माऽऽह मूलतः॥४३५ व्याख्या-किं नाम विद्यते ?, कथं केन प्रकारेण आख्यातं कथितम्, केन देवेन, कस्य गुरोरिति साहिनोक्ने च सति, सचिवो मन्त्री, मूलत आदितः, आह स्म अब्रवीत् ॥ ४३५
देवेन नागदेवस्योपासितेनाष्टमादिना ।
युगप्रधानताव्यत्तय साक्षादिति विबोधितम् ॥ ४३६ व्याख्या-अष्टमादिनाऽष्टम इत्युपवासत्रयस्य संज्ञा । आदिग्रहाद् गन्धधूपदीपायुपासनोपायस्वीकारः । उपासितेन 25 प्रसादितेन देवेन, नागदेवस्य श्रावकस्य, युगप्रधानताव्यक्त्यै-युगशब्देन वर्तमानकालो भण्यते, तस्मिंश्च यः प्रधानः सर्वोत्तमः स युगप्रधानस्तद्भावो युगप्रधानता, तस्या या व्यक्तिः प्रकटनं तस्यै-युगप्रधानत्वपरिज्ञानाय, साक्षात् प्रत्यक्षमिति वक्ष्यमाणं विबोधितं ज्ञापितम् । 'साक्षात्प्रत्यक्षतुल्ययोः' - इत्यनेकार्थः ॥ ४३६
त्वत्करे योऽक्षरश्रेणी गुरुः प्रादुष्करिष्यति ।
अपाकरिष्यति स वै ज्ञेयो युगवरागमः ॥ ४३७ व्याख्या-हे नागदेव ! त्वत्करे त्वत्पाणौ, यो गुरुरक्षरश्रेणी वर्णावलिम् , प्रादुष्करिष्यति प्रकटीकरिष्यति । अपाकरिष्यति च, चेत्यध्याहियते। स गुरुः, वै विशेषेऽव्ययम् , विशेषेण, युगवरागमः-युगे वर्तमानकाले बराः प्रधाना आगमाः शास्त्राणि परिच्छेद्यतया यस्य स युगवरागमः- तत्कालवर्तमानशास्त्रपरिच्छेत्ता युगप्रधान इत्यर्थः । पुरा श्रीगिरिनारगिरौ नागदेवश्राद्धेन श्रीअम्बिका आराधिता। हस्ते 'दासानुदासा इव सर्वदेवाः' अयं श्लोको लिखितः । य एनं वाचयति स युगप्रधानः । ततो जिनदत्तसूरिभिर्वासक्षेपं कृत्वा वाचितः । ततो युगप्रधाननिर्णयो जज्ञे ॥ ४३७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org