________________
मश्रिकर्मचन्द्रवंशावलीप्रबन्ध ।
[३८३-३९० साहिना दर्शनादेव गवाक्षोत्सङ्गतस्त्वरा । बन्धुनेवावतीर्यातिप्रेमापूर्णहृदा तदा ॥ ३८३ आगत्याभिमुखं सत्यबहुमानपुरस्सरम् ।
निरामयसुखायातिप्रश्नपूर्व प्रशंसिताः ॥ ३८४ - युग्मम् । ___व्याख्या- तदा तस्मिन्नवसरे, साहिना अकबरेण, दर्शनादेव गुरोरवलोकनादेव, गवाक्षोत्सङ्गतो वातायनकोडात् , त्वरा शीघ्रमवतीर्य, [बन्धुनेव सहोदरेणेव ] अभिमुखं सम्मुखमागत्य, सत्यबहुमानपुरस्सरमवितथसत्कारपूर्वकम् , निरामयो निर्देशस्य भावप्रधानत्वान्निरामयता नीरोगता सुखायातिः सुखागमनं तयोर्यः प्रश्नः पृच्छा तत्पूर्व निरामयसुखायातिप्रश्नपूर्वम् , श्रीगुरवः प्रशंसिताः श्लाषिताः । यथा श्रीगुरूणां निरामयता वर्तते ? सुखेन आगताः ? इति प्रश्नकरणपूर्वकं स्तुता इत्यर्थः । किम्भूतेन साहिना ! अतिप्रेम्णाऽधिकस्नेहेन, आपूर्ण सम्भृतं हृत् हृदयं यस्यासौ तेन अतिप्रेमापूर्णहृदा ॥ ३८३ -३८४
उक्तं च साहिनाऽस्माकं धर्मगोष्टी वितन्वताम ।
युष्माद्दशा निराशंसाः स्युस्तदा तत्र सुन्दरम् ॥ ३८५ व्याख्या-च पुनः, साहिनोक्तमस्माकं धर्मगोष्ठी धर्मसंलापं वितन्वतां विस्तारयतां सताम् , यदि युष्मादृशा निराशंसा निरीहाः स्युर्भवन्ति, तदा तत्र धर्मगोष्ठ्यां सुन्दरं चारु । गोष्ठी संलापे परिषद्यपि' इत्यनेकार्थः॥ ३८५
विमृश्यैवं समाहूता मया गौर्जरमण्डलात् ।
भवन्तोऽपि कृपापूर्णा आजग्मुनिःस्पृहा अपि ॥ ३८६ व्याख्या-हे गुरवो ! भवन्त एवं पूर्वोक्तं विमृश्य विचार्य, मया गौर्जरमण्डलाद् गौर्जरदेशात् , समाहूता आजुहुवि(हि )रे, भवन्तोऽपि निःस्पृहा अपि निराकाङ्क्षा अपि, कृपापूर्णाः करुणाभृता आजग्मुरागताः ॥ ३८६
युष्माकं भूतपूर्वो यः खेद आगच्छतामिह ।
अपाकरिष्यतेऽस्माभिः स महाधर्मवर्धनात् ॥ ३८७ व्याख्या-हे गुरवो! युष्माकं स्तम्भतीर्थादिह लाभपुर आगच्छतां यः खेदः शोकः- श्रम इत्यर्थः, पूर्व भूतो भूतपूर्वः सोऽस्माभिर्महाधर्मवर्द्धनात् जीवदयादिदानात् , अपांकरिष्यते दूरीकरिष्यते ॥ ३८७
मिवाभाति सर्वमाशास्यंमात्मनि ।
ममाशीस्तादृशी देया यया स्यान्मे दयालुता ॥ ३८८ व्याख्या-हे भगवन् ! आत्मनि मयि,सर्वमाशास्यम् आशीर्वचनं तव राज्यश्रीरस्तु तव पुत्रा भवन्त्वित्यादि पुनरुक्तमिव 2 आभाति चेतसि प्रतिभाति । यद्विद्यमानमपि पुनरुच्यते तत्पुनरुक्तं पिष्टपेषणमिव निरर्थकम् । सर्वमपि तन्मत्समीपेऽस्त्येव ततः किं तयाऽऽशिषा!। परं मम आशीर्मङ्गलशंसनं तादृशी देया यया आशिषा मे मम दयालुता कृपालुता स्याद् यथा मच्चित्तं करुणापरं स्यात् तथा कार्यमिति भावः । नन्वाशास्यमिति कथम् ? एतिस्तु शाखिति क्यपि 'शास इद हलोः' इतीत्वप्राप्ते:शिष्य इति स्यात् ! उच्यते, आशासनमाशासस्तस्य तत्करोतीति णिच् यत्प्रत्ययश्च ॥ ३८८
यादृशी मतिरस्माकं दयायां विद्यते स्थिरा ।
तादृगस्मदपत्येऽपि यथा स्याद् यत्यतां तथा ॥ ३८९ व्याख्या-हे भगवन् ! अस्माकं दयायां कृपायां यादृशी मतिर्बुद्धिः स्थिरा चिरमवस्थायिनी विद्यते तादृक् तादृशी, दयायां स्थिरा मतिरस्मदपत्येऽप्यस्मत्सन्तानेऽपि यथा स्यात्तथा यत्यतां यत्नः क्रियताम् । अस्मदपल्यान्यपि य भवन्ति तथा आशास्यमिति भावः ॥ ३८९
एकशो दर्शनं देयं युष्माभिः प्रतिवासरम् । अस्माकं धर्मवृद्ध्यर्थमवारितगतागतैः ॥ ३९०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org