SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ३७७-३८२ ] पाठक श्रीजयसोमविरचित व्याख्या - ततः फुरमानागमनानन्तरं जावालपुरे, वर्षावासं स्थित्वा ; सहसि मार्गशीर्षे मासे, गुरुदैवतर्क्षदिने पुष्यनक्षत्रवद्वासरे, विजहुर्जावालपुराद् विहारं चक्रुः । किम्भूतं वर्षावासम् ? कृतः कार्षकाणामुल्लासो हर्षविलासो येन स कृतोल्लासस्तम् ॥ ३७६ पल्लिपुरमेदिनीतटनागपुरादिषु पुरेषु भूयस्सु । सङ्घकृतोत्सवनिवहा गुरवो बहुसाधुपरिकरिताः ॥ ३७७ विक्रमपुरीयसङ्घ नागपुरे वन्दनार्थमायातम् । व्यापारितबहुऋद्धिं प्रोत्साद्य ततो विहृतवन्तः ॥ ३७८ - युग्मम् । व्याख्या - गुखः श्रीजिनचन्द्रसूरयः, पल्लिपुर - मेदिनीतट - नागपुरादिषु भूयस्सु बहुलेषु पुरेषु, सङ्घेन कृत उत्सवनिवहो महसमूहो येषां ते सङ्घकृतोत्सवनिवहाः, तथा बहुभिर्घनैः साधुभिः परिकरिताः परिवृता एवंविधाः सन्तः, नागपुरे वन्दनार्थं वन्दननिमित्तम्, आयातमागतं विक्रमपुरीयसङ्कं प्रोत्साह्य धर्मवचनैः प्रोत्साहं धर्म उद्यमं कारयित्वा ततो 10 नागपुराद् विहृतवन्तो विजहुः । किम्भूतं विक्रमपुरीयसङ्घम् ? व्यापारिता साधर्मिकवनीपकेषु नियोजिता दत्तेत्यर्थः, बह्वी घना ऋद्धिः श्रीर्येन स तं व्यापारितबहुऋद्धिम्, ऋत्यक इति ऋति परेऽकः प्राग्वत् प्रकृतिभाव इत्यर्थः ॥ ३७७-३७८ मरुविषयमध्यमार्गे ग्रामग्रामागतास्तिकत्रातम् । वन्दापयन्त ईयुः श्रीपूज्याः श्रीरिणीनगरे ॥ ३७९ व्याख्या - मरुविषयस्य मरुदेशस्य, मध्यमार्गे बापेऊ - राजलदेसर - मालसरप्रभृतिग्रामक्रमयुक्तवर्त्मनि अन्तराल - " वर्त्मनि, ग्रामेभ्यो ग्रामेभ्य आगतो य आस्तिकव्रातः श्राद्धवृन्दं तं वन्दापयन्तो नमस्कारयन्तः, श्रीपूज्याः श्रीजिनचन्द्रसूरयः श्रीरिणीनगर ईयुः समाययुः । अस्ति परलोके मतिर्यस्य स आस्तिकः । अस्तीति तिङन्तप्रतिरूपकमव्ययम्, 'अस्तिनास्तिदिष्टं मतिः' इति ठक् । ननु कथं कारापयति वन्दापयति कथापयति लेखापयतीत्यादि ? उच्यते - महाकविप्रयुक्ता एते प्रयोगाः कापि न दृश्यन्ते । यदि च क्वचन सन्ति ते तदैवं समर्थनीयाः - करणं कारस्तमनुयुङ्क्ते त्वं कुरुष्वेति प्रेरयतीत्यर्थः । उत्पलमतेन 'अतो ञ्णिति' इति वृद्धौ प्वागमे भृत्येन कारापयति, एवं वन्दापयतीत्यादिष्वपि इति क्रियारत्नसमुच्चये । ततो 20 वन्दापयन्त इति प्रयोगः शतरि न दुष्टः ॥ ३७९ 1 ६१ कतिचिद्दिनानि तत्र स्थित्वा समहं समाधियोगेन । सचिवस्य भक्तिकर्तुः साचिव्याद् वीरदासस्य ॥ ३८० अवगाह्य वर्त्म विषमं सरखतीपत्तनादिपुरमध्ये । भूत्वा भूतानुग्रहपरास्ततो लाभपुरमीयुः ॥ ३८१ – युग्मम् । Jain Education International - व्याख्या – भूतेषु प्राणिषु अनुग्रहपराः प्रसादपरा भूतानुग्रहपराः - भूतानामुपर्यनुग्रहकारिण इत्यर्थः । श्रीजिनचन्द्रसूरयस्तत्र रिण्यां समहं ससङ्घमन्त्रि श्रीठाकुर सिंह सुतमन्त्रिराज सिंह विहितोत्सव सहितं यथा स्यात्तथा, समाधियोगेन काय - वाङ्मनःसमाधानसंयोगेन, कतिचिद्दिनानि स्थित्वा अवस्थाय, भक्तिकर्तुः सेवाविधायकस्य वीरदासस्य सचिवस्य मन्त्रिणः, साचिव्यात् साहाय्याद्, विषमं दुर्गमं वर्त्म मार्गमवगाह्य अतिक्रम्य, सरस्वतीपत्तनादिमध्ये भूत्वा ततोऽनन्तरं लाभपुरमीयुः समाययुः। ‘सचिवः सहायेऽमात्ये' इत्यनेकार्थः । सचिवस्य भावः साचिव्यं 'भावे तत्वयण' इति यण् ॥ ३८० - ३८१ प्रवेशदिन एवात्र मेलिता येन मन्त्रिणा । जिनचन्द्राः ससम्मानाः श्रीसाहेर्महवासरे ॥ ३८२ व्याख्या - अत्र लाभपुरे, येन मन्त्रिणा, प्रवेशदिन एव, श्रीसाहेर्महवासर ईददिने, ससम्मानाः सत्कारपूर्वकमित्यर्थः, जिनचन्द्रा मेलिताः । यद्दिने श्रीपूज्याः श्रीसाहिममिलन् तद्दिन ईददिनमासीदिति ॥ ३८२ For Private & Personal Use Only 25 30 www.jainelibrary.org
SR No.003400
Book TitleMantri Karmchandra Vanshavali Prabandh
Original Sutra AuthorN/A
AuthorJinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages122
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy