________________
३९१ - ३९७ ]
पाठकश्रीजयसोमविरचित - व्याख्या-हे गुरवः ! युष्माभिः प्रतिवासरं प्रतिदिनमेकश एकवारम् , अस्माकं धर्मवृद्ध्यर्थं धर्मवृद्धिहेतवे, अवारितगतागतैरस्खलितगमनागमनैः, दर्शनमवलोकनं देयम् । प्रतिदिनमेकवारं श्रीगुरुभिर्मयर्द्धिकायां समेतव्यमिति भावः । एकश इति 'संख्यैकवचनाच्च वीप्सायां' इति शस् ॥ ३९०
एवमाज्ञां समासाद्य श्रीसाहेगुरवो निजाम् ।
वसतिं प्रापुरत्यर्थं मानसोत्साहनिर्भराः ॥ ३९१ व्याख्या-एवं पूर्वोक्तां श्रीसाहेराज्ञामादेशं समासाद्य प्राप्य, गुरवः श्रीजिनचन्द्रसूरयो निजामात्मीयां वसतिमुपाश्रयं प्रापुः । किम्भूताः ? अत्यर्थमतिशयेन मानसोत्साहेन चित्तोद्यमेन निर्भराः सम्पूर्णा मानसोत्साहनिर्भराः ॥ ३९१
तत्रामात्यं समभ्यर्थ्य साहिसम्मतदर्शनः।
प्रवेशोत्सवमातेने श्राद्धः पर्वतनामकः ॥ ३९२ व्याख्या-तत्र वसतिप्रवेशाधिकारेऽमात्यं श्रीकर्मचन्द्रमन्त्रिणं समभ्यर्थ्य याचयित्वा, यदि श्रीमन्त्रिराजाज्ञा स्यात्तदा ।" अहं प्रवेशमहं करोमीति मार्गयित्वा, पर्वतनामको जुहरी पर्वतनामा श्राद्धः, प्रवेशोत्सवं पादप्रसारमहमातेने विस्तारयामास । किम्भूतः पर्वतकः ? साहेः श्रीअकबरस्य सम्मतमभिमतं दर्शनमवलोकनं यस्य स साहिसम्मतदर्शनः ॥ ३९२
प्रभावनाविधानादिकृत्यं च सदुपासकैः।
अन्यैरपि यथावित्तं व्यधायि प्रतिवासरम् ॥ ३९३ व्याख्या-च पुनः, अन्यैरप्यपरैरपि, सदुपासकैः सुश्रावकैः, यथावित्तं वित्तमनतिक्रम्य यथावित्तं वित्तानतिक्रमण, 15 प्रतिवासरं प्रतिदिनम् , प्रभावनाविधानादिकृत्यं व्यधायि विदघे ॥ ३९३
बृहद्गुरुतया पूज्याः ख्यातिमाप्ताः पुरेऽखिले।
साहिसम्मानतो यस्माजना वृद्धानुगामिनः ॥ ३९४ व्याख्या-साहिसम्मानतः साहिसत्कारात्, पूज्याः श्रीजिनचन्द्रसूरयः, अखिले समस्ते पुरे, बृहद्रुतया 'बडे गुरू' इत्याख्यया, ख्याति प्रसिद्धिमाप्ताः प्राप्ताः । यस्माद्धेतोर्जना लोका वृद्धानुगामिनो वृद्धानुसारिणः । यद्धा वदन्ति । तल्लोकैरप्युच्यते । साहिना 'बडे गुरू' इत्युक्तं ततो लोकैरप्येवमेवोच्यते ॥ ३९४
श्रीसाहेराग्रहात् तत्र धर्मगोष्ठीपरायणाः।
दयाधर्म वितन्वाना वर्षावासं प्रचक्रिरे ॥ ३९५ व्याख्या-तत्र लाभपुरे, श्रीसाहेराग्रहादनुग्रहाद्, धर्मगोठ्यां धर्मसंलापे परायणाः प्रवणाः, दयाधर्म कृपाधर्म वितन्वाना विस्तारयन्तः, श्रीबृहद्गुरखो वर्षावासं वर्षाचतुर्मासी प्रचक्रिरे व्यधुः ।। ३९५
अन्यदा द्वारकासत्कचैत्यध्वंसेऽमुना श्रुते ।
श्रीजैनचैत्यरक्षायै विज्ञप्तः श्रीजलालदीः ॥ ३९६ व्याख्या- अन्यदा अन्यस्मिन् समये, द्वारकासत्कानां द्वारकासम्बन्धिनां चैत्यानाम् , नवरङ्गखानकृते ध्वंसे विनाशे, अमुना श्रीकर्मचन्द्रेण श्रते सति, मा कदाचिजिनचैत्यानामपि विनाशमसौ नवरङ्गखानो विधत्तामिति श्रीजैनचैत्यरक्षायै श्रीआर्हतविहाराभङ्गत्वहेतवे श्रीजलालदीरकबरो विज्ञप्तः ॥ ३९६ अथ विज्ञप्तौ कृतानां साहिना यद्विदधे तदाह -
नाथेनाथ प्रसन्नेन जैनास्तीर्थाः समेऽपि हि।
मन्त्रिसाचक्रिरे नूनं पुण्डरीकाचलादयः॥ ३९७ व्याख्या-अथ विज्ञप्त्यनन्तरम् , प्रसन्नेन तुष्टेन नाथेन खामिना साहिना, समेऽपि समस्ता अपि, हि स्फुटम् ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org