________________
मत्रिकर्मचन्द्रवंशावलीप्रबन्ध ।
[१०१-१०६ व्याख्या- अथेति समुच्चये, राजहंस इव विराजितो विराजमानो, हंसराजस्तृतीयः पुत्रोऽभूत् । किम्भूतः ? नव्यः स्तवनीयः, तथा भव्यो योग्यः । एवममुना प्रकारेण त्रयोऽपि पुत्राः, वर्गा धर्मार्थकामा इव प्रथिता विश्रुताः । 'भव्यं फले योग्ये शुभे' इत्याद्यनेकार्थः ॥ १०० ।
पुण्येन वर्द्धमानाः सदासमाना गुणैरसंख्येयैः।
लोकत्रयेऽपि चित्रं चित्रमकार्षीत् तदन्यतरः॥१०१ व्याख्या-ते त्रयोऽपि पुत्राः, पुण्येन पूर्वसुकृतेन वर्द्धमाना वृद्धिमासादयन्तः, सदा नित्यमसंख्येयैरगण्यैर्गुणैर्दाक्षिण्यनैपण्यादिभिः. असमाना अपरेषामसदृशाः, रेजुरिति गम्यते । चित्रमद्भुतमेतद्यत् तदन्यतरोऽपि तेषां त्रयाणामपि मध्येऽन्यतराऽप्येकोऽपि लोकत्रये स्वर्गमर्त्यपातालेषु, चित्रमाश्चर्यकारि कर्माकार्षीच्चकार । त्रयश्चेत्रिलोक्यां चित्रं यदि कुर्युस्तदा किमपि न चित्रं परं तेषां मध्येऽन्यतरोऽप्येवं लोकत्रये चित्रमकार्षीदेतच्चित्रम् । 'चित्रं खे तिलकेऽद्भुते, आलेख्ये कर्बुरे' इति ॥ १०१
मन्त्रीशवत्सराजः सबान्धवो वत्सराज इव नव्यः।
सुभटपुरे रिणमल्लस्वामिसमीपे निवसति स्म ॥१०२ व्याख्या-मन्त्रीशवत्सराजा, सबान्धवः खजनपरिकलितः, सुभटपुरे योधपुरे, रिणमल्लखामिसमीपे रिणमल्लराजसविधे, निवसति स्म निवासमकार्षीत् । किम्भूतः ? नव्यो नवीनो वत्सराज इव वत्सराजो लोकप्रसिद्धः, तद्वत्तथाविधकर्मनिर्वाहकत्वाद् वत्सराजोपमानमस्य भणितम् ॥ १०२
चित्रकूटेऽन्यदा हृद्यकूटः सेवाचिकीर्गतः।
रिणमल्लो हतस्तत्र राज्ञा कुम्भेन कैतवात् ॥ १०३ व्याख्या- अन्यदाऽन्यस्मिन् काले, हृदि हृदयेऽकूटो निर्दम्भः, सेवाचिकीः सेवां कुम्भस्य प्रसादना, चिकीर्षतीति सेवाचिकीः सेवां कर्तुकामो, रिणमल्लो नृपश्चित्रकूटे गतः । तत्र चित्रकूटे, राज्ञा कुम्भेन, कैतवात् कपटाद्धतो मारितः । किश्चिन्मिषं विधाय ततो भयमाशङ्कय निश्येव सुप्तं रिणमल्लं घातयामासेल्यर्थः ॥ १०३
हते राज्ञि निजे देशे ज्ञात्वा योधाधिपो भयम् ।
अवरोधादिकं लात्वा ससैन्यो जङ्गलेऽगमत् ॥ १०४ - व्याख्या-राज्ञि रिणमल्लनृपे हते निहते सति, योधाधिपो योधाख्यो भूपः, अन्तरागतदुर्वारवैरिवारमपास्य समागतः सन् निजे देशे, भयं पश्चादागतकुम्भसेनाया भीति, ज्ञात्वाऽवगम्य, अवरोधादिकमन्तःपुराद्यम् , आदिग्रहणात् कोशादिकं लात्वा गृहीत्वा, ससैन्यः सबलो जङ्गले निर्जलदेशेऽगमज्जगाम ॥ १०४
तत्र राजन्यकार्याणि वत्सराजोऽखिलान्यपि ।
विधाय मानसं राज्ञो वशीचक्रे तदा वशी ॥ १०५ व्याख्या-तत्र जङ्गले वत्सराजो मन्त्री, अखिलान्यपि समस्तान्यपि, राजन्यकार्याणि राजन्यस्य रिणमल्लाख्यक्षत्रियस्य यानि कार्याणि देयदानादिकर्माणि, विधाय कृत्वा, राज्ञो योधाहनृपतेर्मानसं चेतस्तदा तस्मिन् प्रस्तावे, वशीचक्रे खाधीनं चकार। आत्मवशो विहित इत्यर्थः । किम्भूतः ? वत्सराजो क्शी जितेन्द्रियः । राज्ञो जात्यपत्यं राजन्यः । 'राज्ञो जातौ यत् ॥ १०५
पुनर्योधाधिपः सेनां सजीकृत्यातिसाहसी।
वैरिरन्ध्रावलोकित्वाचित्रकूटं गतोऽन्यदा ॥ १०६ व्याख्या-पुनर्भूयो योधाधिपो नृपः, सेनां सैन्यं, सज्जीकृत्य सन्नद्धां विधाय, अन्यदाऽन्यस्मिन् काले, अतिसाहसी साहसं दुष्करकर्म धायं वा, अतिशायि साहसं यस्यासावतिसाहसी, एवंविधः सन् , चित्रकूटं गतः प्राप्तः । कस्माद् ! वैरिरन्ध्रावलोकित्वाद वैरिणां यद् रन्ध्र छिद्रं तद्विघातावसर इत्यर्थः, तदवलोकत इत्येवंशीलो वैरिरन्ध्रावलोकी तद्भावस्तत्त्वं तस्मात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org