________________
१०७-११३ ]
पाठक श्रीजयसोमविरचित
खप्रबलबलमुपादाय, वैरिनिर्यातनाय छलमवलोक्य, योधाधीशश्चित्रकूटे गत इत्यर्थः । 'साहसं तु दमे दुष्करकर्मणि, अविमृश्य कृतौ धार्ये' इत्यनेकार्थः ॥ १०६
विजित्य रानकाधीशं मेदपाटं निहत्य च ।
जयमासाद्य सोधो योधो योधपुरे ययौ ॥ १०७
व्याख्या - योधो योधाख्यो नृपो, रानकाधीशं कुम्भं विजित्य च पुनर्भेदपाटं मेदपाटाख्यदेशं निहत्य हत्वा जयं विजयमासाद्य प्राप्य, सबोधः सत्सुभटपरिवृतो योधपुरे ययौ जगाम ॥ १०७
तां भूमिं समासाद्य मुदितो मेदिनीपतिः । अनीनयत् पुरा मुक्तावरोधं जङ्गलादसौ ॥ १०८
२१
व्याख्या - असौ मेदिनीपतिर्नृपो योधो, गतां वैरिकरप्राप्तां भूमिं समासाद्य लब्ध्वा, मुदितो हृष्टो, जङ्गलात् पुरा पूर्वं मुक्तः प्रेषितो जङ्गलं प्रति योऽवरोधोऽन्तःपुरं तमनीनयदानाययति स्म ॥ १०८ विक्रम-वीदानामकजातयुता साङ्खलाहगोत्रीया । नवरङ्गदेऽभिधाना जज्ञे राज्ञः पुरा पत्नी ॥ १०९
Jain Education International
व्याख्या - राज्ञो योधस्य, नवरङ्गदेऽभिधाना नवरङ्गदेनाम्नी पत्नी भार्या, पुरा पूर्वं जज्ञे बभूव । किम्भूता ? विक्रमarrant यौ जातौ पुत्रौ ताभ्यां युता सहिता । पुनः किम्भूता ? साङ्खलाहगोत्रीया साङ्खलाख्यगोत्रोत्पन्ना ॥ १०९ नीम्बा- सूजा-सातलनामसुतत्रययुता महाराज्ञी । जसमादेवीनाम्नी राज्ञो जीवस्य सर्वस्वम् ॥ ११० नीम्बाख्ये सञ्जाते दैवनियोगात् सुते कथाशेषे । जातिस्वभावदोषाज्जातामर्षा सपत्नीषु ॥ १११ विक्रमनानि सपत्नीसुते सति खात्मजे कथं राज्यम् ।
भावीति विभाव्याऽऽत्मनि विजने राजानमाचष्ट ॥ ११२ - त्रिभिर्विशेषकम् । 20
व्याख्या - राज्ञो योधस्य, जसमादेवीनाम्नी हाडीगोत्रीया महाराज्ञी । विजने रहसि इति वक्ष्यमाणमात्मनि हृद विभाव्य विचार्य, राजानं योधमाचष्ट कथयामास । इतीति किं ? विक्रमनाम्नि सपढ्या नवरङ्गदेनान्याः सुते सति कथं खात्मजे खपुत्रं राज्यं भावि ? | किम्भूता ? जीवस्य नृपात्मनः सर्वखं सर्वधनं, तस्य तदधिकं न किमप्यस्तीत्यर्थः । पुनः किम्भूता ? नीम्बा- सूजा-सातलनामयुत् सुतत्रयं तेन युताऽन्विता । पुनः किम्भूता ? दैवनियोगाद् विधेर्वशात्, नीम्बाख्ये सुते कुमारे, कथाशेषे नामशेषे सञ्जाते सति, मृते सतीत्यर्थः । जातेः स्त्रीजातेर्यः स्वभाव आत्मीया प्रकृतिर्यदन्यस्या असहनं स एव दोषो- 25 ऽगुणस्तस्माज्जातिस्वभावदोषात् । सपत्नीषु पतेरन्यासु स्त्रीषु जातोऽमर्षो यस्याः सा जातामर्षा । सपत्नी छिद्रान्वेषणपरेत्यर्थः ।
यतः - वरं रङ्ककलत्रत्वं वरं वैधव्यवेदना । वरमरण्यवासो वा मा सपत्न्याः पराभवः ॥ १
वरं गेहत्यागो वरमुरुविरागो भवसुखे, वरं क्ष्वेडग्रासो वरमभिनिवासो वनभुवि ।
वरं कण्ठे पाशो वरमखिलनाशो मृगदृशां, न तु प्रेयान् दृष्टः कथमपि सपत्नीपरवशः ॥ २
भौमे मङ्गलनाम विष्टिकरणे भद्रा कणानां क्षये, वृद्धिः शीतलिकाऽतितीव्रपिटके राजा रजःपर्वणि । मिष्टाख्या लवणे विषे मधुरता जामिः सपत्न्यां पुनः, पात्रत्वं च पणाङ्गनासु विदितं नाम्ना परं नाऽर्थतः ॥ ३ क्रोधाज्जातो जिगीषोत्साहयुक्तो गुणोऽमर्षः ॥ ११२
ततो निजात्मजं जायामायया मोहितोऽधिपः । विक्रमं जङ्गले मोक्तुं समाहूयेदमुक्तवान् ॥ ११३
10
For Private & Personal Use Only
33
www.jainelibrary.org