________________
९५-१००] पाठकश्रीजयंसोमविरचित
१९ - व्याख्या-तस्येति गम्यते । तस्य उदाकस्य उछरङ्गादेवीति नाम्ना रामाऽभूदित्यध्याहियते । किम्भूता ! गुणैः सुशीलत्वादिमी रञ्जितमावर्जितं भूवलयं धरामण्डलं यया सा गुणरञ्जितभूवलया। तथा सत्या शोभनया कलया विज्ञानेनाऽलङ्कता विभूषिता । तथा निम्नीकृतमधरीकृतं, निजरूपेण रतेः कामकान्ताया, रूपं सौन्दर्य यया सा निम्नीकृतरतिरूपा ॥ ९४
समभूतां तत्तनयौ सनयौ नरपाल-नागदेवाख्यौ।
___ उपगुरुगृहीतविद्यौ सद्यःसत्रासितावद्यौ ॥ ९५ व्याख्या-तस्य उदाख्यस्य मन्त्रिणस्तनयौ पुत्रौ तत्तनयौ, नरपाल-नागदेवाख्यौ नरपाल-नागदेवनामानौ, समभूतामभवताम् । किम्भूतौ ? सनयौ नयो नीतिस्तत्सहितौ सनयौ । तथोपगुरुः गुरोः समीपे, गृहीता स्वीकृता, विद्या मातृकादिपाठो, याभ्यां तौ । गुरुं विनाऽधीता हि विद्या न यशस्करी भवति ।
यतः - 'नहि भवति निर्विगोपकमनुपासितगुरुकुलस्य विज्ञानम् । प्रकटितपश्चाद्भागं पश्यत नृत्यं मयूरस्य ।'
तथा सद्यस्तत्क्षणात् , सन्त्रासितं दूरीकृतमवद्यं दृष्यं पापं याभ्यां तौ सन्त्रासितावद्यौ । 'अवधपण्यवर्यगर्यपणितव्या । निरोधेषु' इत्येते यदन्ता निपात्यते गाद्यर्थे । अवद्यमनिष्टम् । नरपालादियं जाणाणी शाखा समभूदिति श्रुतिः ॥ ९५
इह नागदेवपत्नी नवरं नवरङ्गदा सदा पत्यौ।
सदपत्या धृतसत्या बभूव नारिङदेवीति ॥९६ व्याख्या -इह वंशे नागदेवस्य पत्नी नारिङ्गन्देवीति बभूव । नवरं केवलं, सदा पत्यौ भर्तरि, नवं रङ्गं नृत्यभूमि ददातीति नवरङ्गदा प्रमोदाद्वैतनिकेत्यर्थः। 'रङ्गः स्यानत्तयुद्धवोः, रागे' इति । पुनः किम्भूता! सदपल्या सच्छोभनमपत्यं 15 सन्तानो यस्याः सा सदपत्या । तथा धृतं सत्यं सद्भूतं यया सा धृतसल्या सत्यवचनवादिनीत्यर्थः। 'णवरं केवले' केवलेऽर्थे णवरमिति प्रयोक्तव्यम् । प्राकृतेऽव्ययाधिकारे । नवरमिति संस्कृते जैनागमप्रसिद्धम् ॥ ९६
पुत्रौ जेसल-चीरमनामानौ तस्य भाग्यसौभाग्ये।
मन्ये मूर्तिमती इव सञ्जातौ जातुचिदवियुतौ ॥ ९७ व्याख्या-तस्य नागदेवस्य, जेसल-चीरमनामानौ पुत्रौ सातावुत्पन्नौ । मन्ये शक्के, मूर्तिमती मूर्ते भाग्यसौभाग्ये ३० भाग्यं च भागधेयं, सौभाग्यं च चक्षुष्यता सुभगता ते इव । एतत्पुत्रद्वयव्याजेन मूर्ते भाग्यसौभाग्ये स्तः । किम्भूतौ ? जातुचित् कदाचिदपि, अवियुतौ न वियुक्तौ । जात्विति कदाचिदर्थे । तयोर्मध्ये वीरमात् 'डुङ्गराणी' शाखा प्रवृत्तेति प्रवादः ॥ ९७
जेसलभायौदार्यात् कल्पलतेवाऽभवन्महीवलये।
जसमादेवीत्यभिधा विशुद्धकुलजातिसम्भूता ॥९८ व्याख्या-तत्र जेसलस्य भार्या वधूर्जसमादेवीत्यभिधाऽभवत् । किम्भूता ? महीवलये भूमण्डल औदार्यादुदात्ततया 25 कल्पलतेव कल्पवल्लीव । पुनः किम्भूता ! विशुद्धं विमलं यत्कुलं पितृसमुत्थं जातिर्मातृकपक्षः। 'ऋतष्ठञ्' सूवुञोऽपवादो हौतृकं मातृकं पैतृकम् । तत्र सम्भूता जाता । तज्जाता हि सन्ततिः प्रतिपन्ननिर्वाहिका भवतीति कुलजातिविशुद्धेर्भणनम् ॥ ९८
तत्पुत्राः सुपवित्रास्त्रयोऽभवंस्तेषु वत्सराजाख्यः।
प्रथमोऽथ देवराजो गुणाद्वितीयो द्वितीयोऽभूत् ॥ ९९ व्याख्या- तस्य जेसलस्य पुत्रास्तत्पुत्राः, सुपवित्रा अतिशयेन पावनाः, त्रयोऽभवन् बभूवुः । तेषु पुत्रेषु मध्ये . वत्सराजाख्यो वत्सराजनामा पुत्रः प्रथमोऽभूत् । अथेति मङ्गलार्थः । द्वितीयो देवराजोऽभूत् । किम्भूतः ? गुणैरद्वितीयोऽसमोऽनन्यसाधारणगुणवानित्यर्थः ॥ ९९
पुत्रोऽथ हंसराजो विराजितो राजहंस इव नव्यः। भव्यस्तृतीय एवं त्रयोऽपि वर्गा इव प्रथिताः ॥ १००
Jain Education International
For Private & Personal use only
www.jainelibrary.org