________________
१६
मधिकर्मचन्द्रवंशावलीप्रबन्ध । पत्तननगरं प्राप्तः पुनरपि मन्त्री गुणाधिकत्वेन ।
दुग्धे लब्धास्वादः करोति कः काझिके प्रीतिम् ॥ ७७ व्याख्या-मन्त्री कडआख्यः, पुनरपि चित्रकटाद, गुणाधिकत्वेनानायास सकलवस्तुप्राप्तेरधिकगुणत्वेन, पत्तननगरं प्राप्तः। 'पत्तनं रत्नयोनिः इत्युक्तेः पत्तनस्य गुणाधिकत्वम् । चित्रकूटं परित्यज्य गुणाधिकत्वं पात्तनीयमधिगम्य पत्तनं प्राप्तः । । यतो दुग्धे गोपयसि, लब्ध आखादो रसो येन स लब्धावादः, कः पुमान् , काञ्जिके आरनाले, प्रीतिमानन्दं करोति । अयमर्थः-येन गोपयः पीतं भवति तस्य किल काञ्जिकं न खदते, तथा येन पत्तननिवासः कृतो भवति स किलान्यत्र वसन्न प्रीतिमादधातीति पुनरपि पत्तनमाययाविति ॥ ७७
राज्ञाऽपि ससम्मानं दत्ता तस्यैव पत्तनाधिपता।
गुणवति पात्रे लब्धे का सुविवेकी न रज्येत ॥ ७८ व्याख्या-राज्ञाऽपि पत्तनाधीश्वरेणापि, तस्यैव कडुआख्यमन्त्रिण एव, ससम्मानं सत्कारपूर्वकं, पत्तनाधिपता अणहिलपत्तनैश्वर्यं दत्ता । यतो गुणवति सगुणे, पात्रे योग्ये नृपतिमलिणि वा, कः सुविवेकी सुष्टु विवेकवान् सदसद्विवेचको, न रज्येन्न रागं विदधीत ! । 'पात्रं तु कूलयोर्मध्ये, पर्णे नृपतिमन्निणि । योग्यभाजनयोः' इत्यादि । 'रख्य रञ्ज मौज रागे' इति कविकल्पद्रुमे । अत एव गुणवत्ता तस्य ज्ञात्या पत्तनाधिपत्यं प्रादायीत्यर्थः ॥ ७८ ..... श्रीजिनविम्ब विधिना विधाप्य वित्तव्ययेन किल बहुना।
नरकरनिषेधपूर्व सर्वे सन्तोषिताः स्वजनाः॥७९ व्याख्या-किलेति वार्तायाम् । आप्ता एवं वार्तयन्ति । येनेति गम्यते । येन कडुआख्येन मन्त्रिणा, बहुना भूयसा वित्तव्ययेन द्रविणसमुत्सर्गेण, श्रीजिनबिम्बम्, जात्येकवचन-जिनबिम्बानि, विधाप्य कारयित्वा, नराणां नृणां, यः करो राजग्राह्यो भागस्तन्निषेधपूर्व, स्वजना बान्धवाः, सन्तोषिताः सन्तोष प्रापिताः। 'व्ययण वित्तसमुत्सर्गे त्यागे । किलेति 'वार्ता रुचिन्यक्करणसम्भाव्यहेत्वलीकेषु' इति ॥ ७९ .
श्रीजिनराजगुरूणां लोकहिताचार्यवर्यकरमूले ।
सूरिपदं कृतनन्दीमहोत्सवो दापयामास ॥ ८० व्याख्या-य इत्यध्याहियते । यः कहुआख्यो मन्त्री, कृतो विहितो नन्दीमहोत्सवो जिनागमप्रसिद्ध उत्सवविशेषो येन स कृतनन्दीमहोत्सवः, श्रीजिनराजगुरूणां लोकहिताचार्याणां, यद्वयं मुख्यं, करमूलं पाणिपाच तस्मिन् , सूरिपदमाचार्यपदवी, दापयामास अदीदपत् । 'मूलं पार्थाचपोरुडौ निकुञ्जशिफयोः' इत्यनेकार्थः। श्रीजिनराजसूरिणामाचार्यपदं येन दापितमित्यर्थः ॥८०
. सूरिपदोत्सवदर्शनसमुत्सुकायातजानपदलोकान् ।
वस्त्रादिदानपूर्व तुतोष यो दोषकृतमोषः॥ ८१ व्याख्या- यः कडुआभिधो मन्त्री, सूरिपदे श्रीजिनराजसूरीणामाचार्यपददाने य उत्सवो महस्तस्य दर्शनायाऽवलोकनाय समुत्सुका उत्कण्ठिता आयाताः प्राप्ता ये जानपदलोका देशीयजनास्तान्, वस्त्रादिदानपूर्वम् , आदिग्रहणात्ताम्बूलादिखीकारः, तुतोष सन्तोषयामास । प्रीणयति स्मेति भावः। किम्भूतः! दोषाणां कार्पण्य-कातर्य-कुशीलवाद्यगुणानां कृतो विहितो मोषोऽपनयनं येन स दोषकृतमोषः ॥ ८१ .
गौर्जरविषये सकले कारितवान् यो विवेकपरिकलितः।
जीववधव्यावृत्तिं कुमारभूपाल इव सदयः॥ ८२ व्याख्या- यः कडुआख्यो मन्त्री, सदयः कृपालः, विवेकपरिकलितः सदसद्विवेचनं विवेकस्तेन परिकलितः सहितः - सन् , सकले समस्ते, गौर्जरविषये गौर्जरदेशे, कुमारभूपाल इव कुमारनृपतिरिव, जीववधव्यावृत्तिं हिंसापरिहारं, कारितवान् कारयामास । गौर्जरदेशेऽमायुद्धोषणामकार्षीदिति भावः ॥ ८२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org