________________
पाठक श्रीजय सोमविरचित:
मालवकपातिसाहेः समागमं समवगम्य योऽन्येद्युः । राणाके जनानां रक्षायै बद्धकक्षेण ॥ ७१ मुक्तः प्रधानवृत्त्या सन्धिं कर्तुं सुलब्धलक्ष्येण । सन्धि विधाय साहेर्न्यवर्तयत् तत्क्षणात् सैन्यम् ॥ ७२ युग्मम् ॥
व्याख्या - यः कडुआकोऽन्येद्युरन्यस्मिन् काले, राणाकेन चित्रकूटप्रभुणा, मालवपातिसाहेः समागममागमनं, s समवगम्य ज्ञात्वा, सन्धि सन्धानमेकत्वं कर्तुं, प्रधानवृत्त्या लोकप्रसिद्धया मुक्तः प्रेषितः । किम्भूतेन राणाकेन ? जनानां खनगरनिवासिलोकानां रक्षायै पालनाय, बद्धकक्षेण बद्धा कक्षा येनेति । 'अन्तरीयपश्चिमाञ्चले कक्षा, प्रतिज्ञायामपि' इति मङ्खः । पुनः किम्भूतेन ? लब्धलक्ष्येण शोभनो लब्ध इव प्राप्त इव लक्ष्यो लक्षणीयो न्यायव्यवहारो येन स सुलब्धलक्ष्यस्तेन, सन्धि साहिना सह सन्धानं विधाय तत्क्षणात्तत्समय एव, सद्य इत्यर्थः । साहेः सैन्यं न्यवर्तयन्निवर्तयामास । पश्चाद्वालितवानित्यर्थः ॥ ७२
७१ - ७६ ]
१५.
सर्वोऽपि नगर लोकस्तस्य प्रशशंस बुद्धिमाहात्म्यम् । यस्मात्स एव मान्यो, यो लोकं पालयेदशिवात् ॥ ७३
व्याख्या - तस्य कडुआकस्य, सर्वोऽपि समस्तोऽपि, नगरलोकः पुरीजनो, बुद्धिमाहात्म्यं धिषणामहिमानं, प्रशशंस स्तौति स्म । यस्माद्धेतोः स एव पुमान् मान्यः पूजनीयो यो लोकमशिवादुपद्रवात् पालयेद्रक्षेत् । 'मानण् पूजायाम् ।' अनेनापि साहिसेनोपद्रववारणेन जनो रक्षित इति ॥ ७३
तदनु भटैरिह निखिलैर्नागरिकैरपि स मन्त्रिराज इति । प्रोक्तो मनविधानाद् यतो जनाः कृत्यवक्तारः ॥ ७४
व्याख्या - तदनु एवंविधपराशक्यकृत्यकरणानन्तरं, इह चित्रकूटे, भटैर्योधैर्निखिलैरपि समस्तैरपि नागरिकैः पैौरैः, स कडुआको, मन्त्रविधानाद् रहस्यालोचनं मन्त्रस्तस्य विधानात् करणात्, 'मन्त्रिराज' इति प्रोक्तः कथितः । मनः कर्तव्यावधारणमस्त्यस्य मन्त्री, तेषां राजाऽधिपतिर्मन्त्रिराज इति । यतो यस्मात् कारणाज्जना लोकाः कृत्यवक्तारो विहितकर्माभिधायकाः, येन 20 यादृक्कर्म विधीयते तस्य वक्तारो लोकाः स्युः । अनेन साहिसेनानिवृत्त्यै मन्त्रो विहित इति मन्त्रिराज उक्त इति ॥ ७४
लोकोक्तं बिरुदाख्यानं चिरस्थायि प्रशस्यं च न भवतीति राजप्रतिपादितं तदाह
राज्ञाऽथ सप्रसादं सर्वाङ्गीणाद्भुताभरणदानात् ।
सम्मानितो ददेऽमै सचिवाधीशत्वमपि हर्षात् ॥ ७५
व्याख्या - अथ सन्धिकरणानन्तरं, सप्रसादं सानुग्रहं, राज्ञा राणाकेन, सर्वाङ्गानि व्याप्नुवन्ति सर्वाङ्गीणानि यान्य- 25द्भुताभरणान्याश्चर्यकारिभूषणानि तेषां दानाद्वितरणात्, सम्मानितः सत्कृतः । तथाऽस्मै कडु आख्यसङ्घाधीशाय, हर्षात् प्रमोदात, सचिवाधीशत्वं मन्नीश्वरत्वमपि ददे प्रदत्तम् । 'तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोतीति खः ।' पूर्वपदस्थनिमित्तादुत्तरपदतद्धितस्थनकारस्य णत्वमिष्यते सर्वाङ्गीण इति प्रक्रियाकौमुद्याम् ॥ ७५
Jain Education International
10
For Private & Personal Use Only
तदनु खगोत्रजानां कृतवान् करमोक्षणं प्रयत्नेन । प्राप्तोदयोऽत्र रविरिव शूराणां वृत्तिरियमेव ॥ ७६
व्याख्या - तदनु मन्त्रिपदसम्पदवाप्त्यनन्तरं, अत्र चित्रकूटे, स इत्याकृष्यते । स कडुआख्यो मन्त्री, प्राप्तोदयो लब्धोन्नतिः, स्वगोत्रजानां स्वान्वयोत्पन्नानां पुंसां, करमोक्षणं करो राजग्राह्यभागस्तस्य मोक्षणं मोचनं, प्रयत्नेन महोद्यमेन कृतवान् । क इव ? रविरिव श्रीसूर्य इव । सोऽप्युदयाद्रौ प्राप्तोदयः, करमोक्षणं करा रश्मयस्तेषां मोक्षणं सर्वासु दिक्षु प्रवर्तनं तत्करोत्येव । यतः शूराणां वीराणामियमेव वृत्तिर्वर्तनं, यच्छूरा लब्धोदयाः करमोक्षणं विदधतीति । शूरः सूर्योऽप्युच्यते । 'शूरः सूरश्च तरणौ' इति शब्दप्रभेदे । 'करः प्रत्यायशुण्डयोः, रश्मौ वर्षोपले पाणौ' इत्यनेकार्थः । प्रत्यायो राजग्राह्य 35 इति तद्वृत्तौ ॥ ७६
15
www.jainelibrary.org