________________
८३-८८]
पाठकश्रीजयसोमविरचित श्रीसङ्घयुतः कृतवान् सुकृती श्रीतीर्थराजयात्रां यः।
एवं पुण्यभराख्यो जगाम तविषं विषयविमुखः ॥ ८३ व्याख्या- यः सुकृती पुण्यवान् , श्रीकडुआख्यो मन्त्री, श्रीसङ्घयुतः श्रीसङ्घयुक्तः सन् , श्रीतीर्थराजयात्रां श्रीपुण्डरीकगिरियात्रां कृतवांश्चकार । एवं पूर्वोक्तप्रकारेण, विषयविमुखो विषयाः शब्दादयस्तेभ्यो विमुखो व्यावृत्तः सन् , पुण्यभरेण सुकृतसम्भारेणाऽऽन्यः समृद्धः परिपूर्णः पुण्यभराड्यः, तविषं स्वर्ग जगाम ॥ ८३
तत्पुत्रो मेराख्यो हर्षमदेवी बभूव तत्पत्नी ।
निजपतिचेतोनुगता सदनुमता शीलगुणकलिता ॥ ८४ व्याख्या-तस्य कडुआख्यमन्त्रिणः पुत्रस्तत्पुत्रो मेराख्यो मेराभिधो मन्त्री बभूव । तस्य मेराकस्य पत्नी भार्या हर्षमदेवीत्यभिधाना बभूव । किम्भूता ? निजपतेरात्मीयभर्तुश्चेतोऽनुगता चित्तानुगामिनी भत्रनुकूलेल्यर्थः । यदुक्तम् -
'प्रीणाति यः सुचरितैः पितरं स पुत्रो, यद्भर्तुरेव हितमिच्छति तत्कलत्रम् ।
तन्मित्रमापदि सुखे च समक्रियं यदेतत्रयं जगति पुण्यकृतो लभन्ते ॥ १ . पुनः किम्भूता! सदनुमता सतां सत्पुरुषाणामनुमता सम्मता, सर्वेषामप्यौचित्यव्यवहारं नाऽतिक्रामतीत्यर्थः । पुनः किंविशिष्टा ? शीलगुणकलिता शीलगुणेन कलिता सहिता। - यतः-'शीलमेव कुलस्त्रीणामिहामुत्र च जीवितम् । शीले नष्टे पुनः प्राणी जीवन्नपि मृतोपमः ॥ इति ॥ ८४
. सप्तक्षेत्र्यां निजकं धनबीजं यः सदाऽपि वपति स्म ।
विस्मयकारी जातो जनेषु विनयोपचाराचैः॥८५ व्याख्या-यो मेराको मन्त्री सप्तानां क्षेत्राणां जिनभवनादिरूपकेदाराणां समाहारः सप्तक्षेत्री तस्यां, निजकं, खार्थे , आत्मीयं धनमेव बीजमङ्करकारणं क्पति स्म, उवाप नियोजयामासेत्यर्थः। चेत्याकृष्यते। च पुनर्यो जनेषु, विनयोपचारायः . विनयो नम्रता, उपचारो यथायोग्यमाराधना, तावाद्यौ येषां शौर्यधैर्यौदार्याणां तैर्विस्मयकार्याश्चर्यजनको जातः समभूत् ॥ ८५
चक्रे क्रमात् स विक्रमभूपालसमानविक्रमाक्रान्तः।
श्रीविमलाचलरैवतनगार्बुदादिषु परां यात्राम् ॥ ८६ व्याख्या-क्रमात् क्रमेण, स मेराको मन्त्री, श्रीविमलाचल-रैवतनगार्बुदादिषु श्रीविमलाचलः शत्रुञ्जयः, रैवतनगः उज्जयन्ताद्रिः, अर्बुदोऽर्बुदाचलः, त आदौ येषां स्तम्भनकादीनां तेषु तीर्थेषु, परां प्रधानां, यात्रामुत्सवं, चक्रे विदधौ । किम्भूतः ? विक्रमभूपालस्य विक्रमादित्यराजस्य समानः सदृशो यो विक्रमः शौण्डीयं तेनाऽऽक्रान्त आश्रितो विक्रमभूपालसमानविक्रमाक्रान्तः ॥ ८६
मन्त्रीशस्तीर्थकरं मुमोच न मुमोच जातु तीर्थकरम् । .
प्रददे सुगुप्तदानं विदधे स्वागमसुधापानम् ॥ ८७ व्याख्या- मन्त्रीशो मेराख्यः, तीर्थस्य शत्रुञ्जयादिपुण्यक्षेत्रस्य, करं राजग्राह्यभाग, मुमोच - अमुञ्चत् । जातु कदाचिदपि, तीर्थकरमहन्तं न मुमोच । सर्वदाऽर्हत्स्मरणं विदधान इत्यर्थः । यो मन्त्री सुगुप्तदानं परालक्ष्यद्रव्यं, प्रददे ददौ । दीयत इति दानं देवद्रव्यमत्र गृह्यते । तथा सुष्ठागमा जिनोक्तसिद्धान्ता एव सुधाऽमृतं तस्याः पानमत्यादरेण श्रवणं पानमुच्यते । तद्वि- अ दधे चकार ॥ ८७
एवं पूर्णमनोरथमालः शुभभाग्यकलितवरभालः।
अवमानितकलिकालः सुरोऽभवत् सचिवसुरसालः॥८८ व्याख्या- एवममुना प्रकारेण, पूर्णा समाप्तिमाप्ता मनोरथमाला तीर्थयात्राकरणाघभिलाषश्रेणियस्य स पूर्णमनोरथमालः, सचिवसुरसालो मन्त्रि कल्पवृक्षो मेराख्यः , सुरो देवोऽभवत् । किम्भूतः ? शुभभाग्येन शोभनभागधेयेन, कलितं सहितं, वरभालं 35
म. क. वं० प्र०३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org