________________
मधिकर्मचन्द्रवंशावलीप्रबन्ध ।
[२-५
स चायम् -यो वृषो भवति स कथं नाम सिंहरूपमासनमाश्रयति प्रत्युत तद्भीतत्वात्स कापि ततः पलाय्य गच्छेदिति । विरोधपरिहारस्तु प्रागेवोक्त इति ॥ १ अथ श्रीशान्तिनाथं षोडशतीर्थकरं नमस्कुर्वन्नाह -
श्रीशान्ति शान्तिकर्तारं भर्तारमनुयायिनाम् ।
यत्प्रत्यासत्तितो भेजे कुरङ्गोऽपि सुरगताम् ॥२ व्याख्या-श्रीशान्ति शान्तियोगात्तदात्मकत्वात्तत्कर्तृत्वाचायं शान्तिः । तथा गर्भस्थेऽस्मिन् पूर्वोत्पन्नाशिवशान्तिरभूदिति शान्तिस्तं वन्द इति क्रियाध्याहारः कार्यः । किम्भूतं ? शान्तिकर्तारं शान्तिविधायकम् । पुनः किम्भूतं ? अनुयायिनां सेवकानां भर्तारं तत्कामितार्थसम्पादकत्वेन पोषकम् । 'डु,गक पोषणे च' चाद्धारणे। यत्प्रत्यासत्तितो यस्य भगवतः प्रत्यासति कट्यम् । ततः पञ्चम्यास्तसिल । कुरङ्गो हरिणोऽपि सुरङ्गतां शोभनवर्णतां भेजे शिश्राय । अपिशब्दो विरोधार्थः । यः " कुरङ्गः कुत्सितलौहित्यादिरङ्गो भवति स सुरङ्गः शोभनरङ्गः कथं स्यात् । रङ्गः स्यानत्तयुद्धवोः, रागे' इत्यनेकार्थः। रागो लौहिल्यादिस्तत्परिहारस्तु प्रागेवादर्शि ॥२ अथ द्वाविंशं जिनं नमस्कृतिपथे कुर्वन्नाह -
श्रीयादवकुलोत्तंसं नौमि नेमि निरञ्जनम् ।
यदाश्रयेण सञ्जातः शङ्खोऽद्यापि निरञ्जनः ॥३ 15 व्याख्या-एवंविधं नेमिं धर्मचक्रस्य नेमिवन्नेमिस्तं नौमि स्वीमि । किम्भूतं ! श्रीयादवकुलोत्तंसं श्रीयादवकुलस्य
श्रीयादववंशस्योत्तंस इव शेखर इव विभूषत्वात् श्रीयादवकुलोत्तंसस्तम् । पुनः किम्भूतं ! निरञ्जनं निर्गतं रञ्जनं रागादिलेपो यस्मात्तं निरञ्जनम् । यद्वाऽञ्जनान्यहङ्कारस्थानानि जातिलाभादीनि निर्गतानि यस्मात् स निरञ्जनस्तम् । 'रंजी रागे' भावे ल्युट्। यदाश्रयेण यस्य भगवत आश्रयेणाङ्गीकरणेनाद्याप्येतत्कालेऽपि शङ्क: कम्बुनिरञ्जनो लौहित्यादिरागवगव्यरञ्जनायोग्यः सञ्जातः । भगवतो निरञ्जनत्वात् , 'संखो इव निरंजणो' इति वचनात् । तदाश्रयाच्छवोऽपि यदि निरञ्जनः स्यात्तदा किमत्र चित्रम् । भक्ता हि खप्रभुधर्मानुगामिनो भवन्तीति ।। ३ अथ कलिकालेऽपि जाग्रत्प्रभावं त्रयोविंशं तीर्थकरं नमस्कुर्वन्नाह -
पार्श्वः पार्थ्याख्ययक्षेण कृतरक्षेण सेविनाम् ।
संस्तुतः संस्तुतेयेस्य नागो नागेन्द्रतां ययौ ॥४ व्याख्या-अप्रतो यच्छब्दावेक्षणादत्र तच्छब्द आकृष्यते । स पार्थः स्पृशति ज्ञानेन सर्वभावानिति पार्श्वः । तथा 18 गर्भस्थे जनन्या निशि शयनीयस्थयाऽन्धकारे सर्पो दृष्ट इति गर्भानुभावोऽयमिति मत्वा पश्यतीति निरुक्तात् पार्श्वः । नम्य इति क्रियाऽध्याहियते । किम्भूतः ? सेविनां सेवाकरणशीलानां कृतरक्षेण कृता रक्षा प्रतिपालनमुपद्रवादिपरिहारेण येनेति कृतरक्षस्तेन पार्थाख्ययक्षेण वैयावृत्त्यकरपार्थाभिधानदेवविशेषेण संस्तुतः प्रणुतः। यस्य पार्थस्य संस्तुतेः परिचयात् परमेष्ठिमहामन्त्रप्रदानलक्षणान्नागः सो नागेन्द्रतां धरणेन्द्रत्वं ययौ प्राप ||४ अथ चरमजिनस्य नमस्यतां कथयन्नाह
शासनाधीश्वरो वीरः समीरः पापपांसुषु ।
सेव्यो यत्सेवनाजातः सिंहोऽप्यष्टापदासनः॥५ व्याख्या-स वीरो विशेषेणेरयति प्रेरयति कर्माणीति वीरः सेव्यो भजनीयः । किम्भूतः ? शासनाधीश्वरः शासनस्य जिनशासनस्याधीश्वरोऽधिकप्रभुः । पुनः किम्भूतः पापपांसुषु एनोधूलिषु समीरो वायुः । यथा समीरेण पांसुर्दूरीक्रियते तथा येन पापं दूरीचके । यत्सेवनात् - यस्य भगवतः सेवनाद्भजनात् सिंहोऽपि हर्यक्षोऽपि लाञ्छनत्वादष्टापदासनः खर्णासनो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org