________________
पाठकश्रीजयसोमविरचित जातः । अष्टापदे वर्णेऽर्थात्तन्मये सिंहासन आस्यतेऽनेनेत्यष्टापदासनः । 'करणाधिकरणयोश्च' इति ल्युट। अपिशब्दो विरोधद्योतकः । यः सिंहो भवति सोऽष्टापदासनः कथं स्यात् । अष्टापदे शरभ आस्यतेऽनेनेत्यष्टापदासनः । प्रत्युत सिंहोपरि हन्तुमष्टापदेन स्थीयते। यदुक्तं कविशिक्षायाम् - 'सिंहस्य शरभो हन्ता' इति । विरोधपरिहारस्तु प्रागेवावादि । 'अष्टापदश्चन्द्रमल्या, लूतायां शरभे गिरौ । कनके शारिफलके ।' इत्यनेकार्थ इति ॥ ५ देवान् स्तुत्वा गुरून् स्तुवन्नाह -
जीयागोतमगोत्रीयो वाडवेयो गणाग्रणी।
चित्रं गोरसदानेन यः प्रीणाति स मानसम् ॥६ व्याख्या-स गोतमगोत्रीयो गोतमवंशोत्पन्नो गणाग्रणी:-गणः साधुसमुदायस्तस्याग्रणीमुख्यः श्रीइन्द्रभूतिः प्रथमगणधरो जीयात्- सर्वोत्कर्षेण वर्तताम् । आशिषि रूपम् । सर्वोत्कृष्टश्च नमस्कार्य एव । यत्र सर्वोत्कृष्टत्वं तत्र नमस्कार्यत्वमित्यविनाभावादतो जीयादिति पदेन नमस्कारप्रतिपत्तिः । नमस्कारेण च प्रबन्धकर्तृ-व्याख्यातृ-श्रोतृणामिष्टफलसम्पत्तिः।" किम्भूतो ? वाडवेयः- वाडव इवातृप्तत्वाद्वाडवः । वडवा ब्राह्मणी तदपत्यमिति वा । प्रसादेऽप्युक्तम् – 'अपत्ये तु वाडव' इत्यणेव स्यात् । तस्य ई लक्ष्मी याति प्राप्नोतीति वाडवेयः । अथ चित्रतामुद्भावयति - इदं चित्रं यो गोतमगोत्रीयः प्रकृष्टगोवंशोत्पन्नो वाडवेयो वडवाया वृषो वाडवेयः । 'वडवाया वृषे वाच्ये ढग्वाच्यः । वृषभो गणाग्रणी!गणमुख्यः स कथं गोरसदानेन-गोरसो दुग्धं तस्य दानेन वितरणेन मानसं प्रीणाति प्रमोदयति । धेनुरेव गोरसं स्नौति न वृषभ इति । 'गोरसः क्षीरमूधस्यं' इति हैमः कोषः। अथ वास्तवमर्थं समर्थयति-यो भगवान् गोरसदानेन गौर्वाणी तस्या यो रसः ।। खादस्तस्य दानेन मानसं श्रोतृणां चित्तं प्रमोदयति स्मेति । अत एव श्रीमहावीरदर्शनात् पलायमानोऽपि कर्षकः श्रीगौतमेन खगिरा सुधाकिरा प्रतिबोध्य दीक्षित इत्यागमप्रसिद्धिः ॥ ६
क्षेत्रेषु यः प्रशस्येषु सुगुप्तेष्वपि सप्तम्।
सञ्चारयति गां गोपः स जीयात् पञ्चमो गणी ॥७ व्याख्या-स प्रसिद्धमहिमा गोप इव गोपाल इव गोपः पञ्चमो गणी-आचार्यः श्रीसुधर्मखामी जीयात् । यो भगवान् सप्तसु सप्तसंख्येषु, प्रशस्येषु प्राप्तश्लाघेषु प्रतिपन्थिमथनेनानुकूलाचरणेन च, सुगुप्तेषु सुरक्षितेषु, क्षेत्रेषु 'जिणभवणबिंबपुत्थयसंघसरूवाइ सत्त खित्ताई' इति गाथोक्तरूपेषु, गां वाणी सञ्चारयति प्रवर्तयति तद्वैयावृत्त्योपदेशं ददातीत्यर्थः । ननु साम्प्रतं तस्य मुक्तत्वात्कथमिदं घटते ?। न, तत्कालापेक्षयाऽयं निर्देशः । अपिशब्दो विरोधार्थः । स चायम् -यो गोपो भवति स कथं प्रशस्येषु शसयोरैक्यात् प्रधानधान्यवत्सु, तथा सुगुप्तेषु वृत्त्यादिना सुरक्षितेषु, क्षेत्रेषु केदारेषु, गां घेर्नु, सं सम्यक् चारयति तृण्याः खादयति । चर् गतिभक्षणयोरिति धातुनिर्देशात् । 'गौर्वाणीबाणभूरश्मिवज्रवर्गाक्षिवारिषु । दिशि धेनौ श्रुतेश्वर्या गणेशे चापि गौः स्मृतः ॥ ७
समजनि पुनर्नवाङ्गो यः श्रीवामेयसार्वसान्निध्यात् ।
अकृत च पुनर्नवाङ्गीविवृति स मुदेऽस्त्वभयदेवः ॥८. व्याख्या-योऽभयदेवः अभयदेवसूरिः, श्रीवामेयसार्वसान्निध्यात् श्रीपार्श्वनाथतीर्थकृत्प्रभावेण, पुनर्नवाङ्गः कुष्ठरोगेण गलिताङ्गोऽपि पुनर्नवशरीरः समजनि । च पुनः, यः पुनः, नवाङ्गीविवृति श्रीस्थानाङ्गादिनवाङ्गवृत्तिं अकृत व्यधत्त । पूर्व ॥ हि शीलाङ्काचार्येणैकादशाजया अपि वृत्तयो विहिता आसन् । परं तासां मध्य आचाराङ्ग-सूत्रकृताङ्गवृत्ती एव स्थिते अन्या विच्छेदमापुरिति श्रूयते । अत एवास्मगुस्वः पुनरिति पदं प्रोचिवांसः । स श्रीअभयदेवसूरिः, मुदे हर्षाय, अस्तु भवतु । अयं हि श्रीखरतरगच्छे महान् सप्रभावो गुरुरजनीति तव्यावर्णनं चकृवांसः।
अत्रायं वृद्धसम्प्रदायः-पुरा भगवान् अभयदेवसरिर्जरत्रायां शम्भाणकस्थाने विहृतवान् । तत्र च महाव्याधिबनातीवशरीरापाटवे सति प्रत्यासन्ननगरमामेभ्यः पाक्षिकप्रतिक्रमणाय समाजिगमिषुर्विशेषेण समाहूतो मिथ्यादुष्कृतदानाय :
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org