________________
पाठकश्रीजयसोमविरचित मनिकर्मचन्द्रवंशावलीप्रबन्ध ।
[वाचनाचार्यश्रीगुणविनयकृतवृत्तिसहित ]
श्रीफलवर्धिकपार्श्व प्रणम्य रम्यश्रियं शुभप्रसवम् । प्रसभं श्रीजिनकुशलं कुशलं ददतं च भक्तानाम् ॥ १ *प्रौढप्रतापतपनं श्रीजिनचन्द्रं गुरुं कविप्रणुतम् । बुधकृतमङ्गललील क्रोडीकृतसाधकं ध्यात्वा ॥ २॥ श्रीजिनसिंहमुनीन्द्रं चन्द्रप्रतिमं कुमुदविकासकृते । समुपश्लोक्य कृपालुं प्रणमद्भूपालभूपालम् ॥ ३ पाठकपदप्रधानान् श्रीजयसोमान् गुरून् मनसि धृत्वा । प्राप्य तदादेशमहं विवृणोमि विभाव्य निजबुद्ध्या॥ ४ खगुरुकृतमत्रिराजश्रीमदंशावलीमिमां सुगमाम् । अपि हंसगामिनीवरप्रसादविकसन्मतिः सरसाम् ॥ युग्मम् । ५ अत्र ग्रन्थे कतिचिल्लौकिकरूढ्याऽपि सन्ति नामानि । न च तत्र शब्दशास्त्रापेक्षाऽर्थे हार्दमत्र कवेः॥ ६ लालित्यं ग्रन्थकृता बालानां बोधनाय यद्विदधे । श्रीमत्रिराजभावानुगामिता हेतुरिह तत्र ॥
इह निर्विघ्नं स्ववचनरचनासूत्रसङ्गत्या चिकीर्षितश्रीमत्रिराजवंशावलीमुक्तावलीसमारचनमिच्छमिः खच्छमतिभिः श्रीगुरुभिः श्रीजयसोमोपाध्यायैरादौ शिष्टाचारप्रतिपालनायेष्टदेवतानमस्काररूपं वाचिकं मङ्गलमारभ्यते। तच्च निधाकायिक, वाचिकं, मानसिकं च । तत्राऽऽये फलं प्रति व्यभिचरतः कापि कापि पूर्वग्रन्थादौ तयोः सद्भावोऽपि समाप्तेरदर्शनात् , अन्त्यस्य तु नमस्कारस्य नैश्चयिकफलकत्वान्न्याय्यं करणम् । तथापि त्रिवेणीयोगवन्मानसिकनमस्कारसम्बद्धे ते द्वे अपि यथोक्तपूर्णफलनिष्पादके । तत्रापि कायिकस्य तस्य ग्रन्थकर्तृशिरोनमनाञ्जलिकरणादिकायव्यापार- 15 रूपत्वेन तत्क्षण एव जातत्वान्न परेषामसन्निहितत्वादध्यक्षेणावगमः । मानसिकस्य तु तस्य मनोभवत्वेन नानतिशयिज्ञानिभिः परिच्छेदः कर्तुं शक्यते । अतोऽत्र यद्वाचिकनमस्कारनिदर्शनं तच्छिष्यप्रशिष्यानुशिष्यर्थम् । तदृष्ट्वा खवंश्या अपि शिष्या ग्रन्थादौ तत्समारभेरनिति ।
श्रीयुगादीश्वरं देवं तं वन्दे महिमाद्भुतम् ।
वृषोऽपि यत्मभावेण सिंहासनमशिश्रयत् ॥१ व्याख्या-ईष्ट इत्येवंशील ईश्वरः । स्थेशभासेति वरः । युगस्य कृतयुगस्य आदौ ईश्वरो युगादीश्वरः । श्रिया केवलज्ञानादिलक्ष्म्या उपलक्षितो युगादीश्वरः श्रीयुगादीश्वरस्तम् । इदं हि युगव्यवस्थया विशेषणं लौकिककविसमयापेक्षया ग्रन्थका प्रत्यपादि। अन्यथा श्रीजिनशासनापेक्षया त्ववसर्पिण्यास्तृतीयारकपर्यन्ते श्रीऋषभदेवस्य जातत्वात् । दीव्यति क्रीडति परमानन्दपद इति देवस्तमादीश्वरं वन्दे नमस्कुर्वे स्तवीमि वा । 'वदि' अभिवादनस्तुत्योरिति धातुनिर्देशात् । किम्भूतं ! महिमाद्भुतं महतो भावो महिमा माहात्म्यमनुभाव इत्यर्थस्तेनाद्भुतमाश्चर्यकारकम् ।
___ अथ महिमामेव भगवतो व्याख्यानभङ्गया दर्शयति- यत्प्रभावेण यस्य भगवतः प्रभावेण माहात्म्येन वृषोऽपि बलीवर्दोऽपि सिंहासनं सिंहोपलक्षितमासनं सिंहासनं सौवर्ण भद्रासनं सिंहासनमुच्यते । 'सिंहासनं तु तद्वैम' इत्युक्तेः । अशिश्रयदभजत् । वृषभलाञ्छनत्वाद्भगवतः सिंहासनाश्रयणे तस्यापि तदाश्रयणं घटत एवेति । अपिशब्दोऽत्र विरोधद्योतकः ।
20
25
*आदित्य-सोम-मजल-बुध-बृहस्पति-शुक्र-शनयः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org