________________
प्राकृतानन्द . ..... काशेर्वासः ॥ ३५१॥... अवात् परस्य कार्वास इत्यादेशः स्यात् । अवकासते ओवासइ । अवादिति किम् ? कासते कासह । ग्रसु पलमु अदने ।
ग्रसेर्विसः ॥ ३५२ ॥ अस्य विस इत्यादेशः स्यात् । असते विसइ । गाहू विलोडने ।
- अवाद् गाहेर्वाहः॥ ३५३ ॥ अवात् परस्य गाहेर्वाह इत्यादेशः स्यात् । अवगाहते ओवाहइ । अवादिति किम् ? गाहते गाहइ । वृषु मृषु सेचने।
वृष-कृष-मृष-हषामृतोऽरिः॥ ३५४ ॥ एषां ऋतः अरिः इत्ययमादेशः स्यात् । वर्षति परिसइ । मर्षति मरिसइ । कृषि विलेखने इति भौवादिकस्यैव ग्रहणम् , न तौदादिकस्य, वृषादिसाहचर्यात् । हूषु अलीके । हर्षति हरिसइ । वृधु वृद्धौ । .
वृधेः ॥ ३५५ ॥ अन्तस्य स्यात् । वर्धते वडइ, 'ऋतोऽद्' (१२०) इत्यकारः। भित्वरा सम्भ्रमे।
त्वरस्तुवरः॥ ३५६ ॥ स्पष्टम् । त्वरते तुवरइ तुवरए । चल कम्पने । चलति चल्लइ चलइ, 'स्फुटि-चल्योर्वा' (३४४) इति वा द्वित्वम् । पत्ल गती।
. शद्ल-पत्योः ॥ ३५७ ॥ अनयोरन्तस्य डः स्यात् । पतति पडइ। शदूल शातने । शीयते सडइ । कथे निष्पाके।
कथेः ॥ ३५८ ॥ अन्तस्य स्यात्। कथति कढइ । मलै हर्षक्षये।
म्लै वा-वाऔ ॥ ३५९ ॥ अस्य वा वाअ इत्येतावादेशौ स्याताम् । म्लायति वाइ वाअइ । ध्यै चिन्तायाम् ।
ष्ठा-ध्या-गानां ठाअ-झाअ-गाआः ॥ ३६० ॥ एषामेते क्रमेण स्युः।
ठा-झा-गाश्च वर्तमान-भविष्यद्-विध्यायेकवचनेषु ॥ ३६१ ॥ ....एषु ठा-ध्या-गानांठा झा गा इत्येते आदेशाः स्युः। चात् पूर्वोक्ताः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org