________________
प्राकृतानन्द
निपाताः ॥ २८९॥ अधिकारोऽयम्।
हुं दान-पृच्छा-निर्धारणे ॥ २९० ॥ हुमित्ययं निपातसंज्ञः स्याद् दाने पृच्छायां निर्धारणे च ।
चिअ चेअ अवधारणे ॥ २९१ ॥ चिअ चेअ इत्येतौ निपातसंज्ञौ स्तः निश्चये।
ओ सूचना-पश्चात्ताप-विकल्पेषु ॥ २९२ ॥ ओ इत्ययं निपातः सूचनायां पश्चात्तापे विकल्पे च ।
___ इर-किर-किला अनिश्चिताख्याने ॥ २९३ ॥ त्रयो निपाताः संशयाख्याने ।
हु-क्खु निश्चय-वितर्क-सम्भावनेषु ॥ २९४ ॥ हु क्खु इत्येतौ निपातौ निश्चये वितर्के सम्भावनायां च ।
णवरः केवले ॥ २९५ ॥ निपातः केवलेऽर्थे ।
णवरि आनन्तर्ये ॥ २९६ ॥ णवरि इति आनन्तर्ये निपातः।
किणो प्रश्॥ २९७ ॥ किणो इत्ययं पृच्छायां निपातः।
अबो दुःख-सूचना-सम्भावनेषु ॥ २९८ ॥ अव्वो इत्ययं निपातः दुःखे सूचनायां सम्भावनायां च ।
अलाहि निवारणे ॥ २९९ ॥ अलाहि इत्ययं निपातः निषेधे।
अइ वले सम्भाषणे ॥ ३०० ॥ अइ वले एतौ निपातौ वचने ।
अबो अम्मो दुःखा-ऽऽक्षेप-विस्मापनेषु ॥ ३०१॥ एतौ निपातौ दुःखे आक्षेपे विस्मापने च । अत्र 'अव्यो दुःख-सूचमा-सम्भावनेषु' 'अम्मो च दुःखाऽऽक्षेप-विस्मापनेषु' इति सूत्रयितुं युक्तमिति केचित् । वयं तु तत्रापरसूत्रे 'दुःख' शब्दमपि त्यजामा, पूर्वसूत्रे दुःखशन्दस्य खरितत्वेनानुवर्तनात्, 'खरितेनाधिकार' इति पाणिनीये
wwwwwwwwww
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org