________________
पण्डित-रघुनाथ-कवि-विरचित परिभाषितत्वात् समस्तपदादेकदेशानुवृत्तिस्तु 'क्ङिति च' इत्यत्र 'न धातुलोपः' - इत्यतो धातुग्रहणानुवृत्तिवत् ।
णवि वैपरीत्ये ॥ ३०२ ॥ अयं वैपरीत्ये निपातः।
__ सू कुत्सायाम् ॥ ३०३ ॥ सू इत्ययं निपातो निन्दायाम् ।
रे अरे हिरे सम्भाषण-रतिकलहा-ऽऽक्षेपेषु ॥ ३०४ ॥ रे अरे हिरे इति त्रयः क्रमेण सम्भाषणे रतिकलहे आक्षेपे च निपाताः । अत्र च 'यथासंख्यमनुदेशः समानाम्' इत्युक्तत्वाद् यथासंख्यम् ।
म्मिव-मिअ-विआ इवार्थे ॥ ३०५ ॥ मिव मिअ विअ इत्येते इवार्थे निपातसंज्ञकाः।
अज्ज आमत्रणे ॥ ३०६॥ अज्ज इत्ययं निपातः आमन्त्रणेऽर्थे, सम्बोधने इत्यर्थः ।
शेषः संस्कृतात् ॥ ३०७ ॥ उक्तादन्यः संस्कृतादवगन्तव्यः।
इवे वः ॥ ३०८ ॥ इवशब्दे व्व इति निपात्यते । स इवायम् सो व्व इमो। विअ इति वक्तव्यम् , सो विअ इमो।
अपौ विः ॥ ३०९ ॥ अपिशब्दे व्विः इति निपात्यते । सोऽपि देव इव सो व्यि देवो व्व।
ओदवा-ऽपयोः ॥ ३१० ॥ अव अप इत्येतयोः ओ इत्यादेशो वा स्यात् । अवगाहः ओगाहो अवगाहो । अपनयः ओणओ अवणओ, 'पो वः' (८५) इति वः।
__इतेस्तः पदादेः ॥ ३११ ॥ पदादेः इतिशब्दस्य यः तकारः ततः परस्य इकारस्य अ इत्यादेशः स्यात् । इति विलपन् इअ विलअंतो। त इति किम् ? आदेरिकारस्य मा भूत् । पदादेरिति किम् ? इलेलिरिति वक्तव्यम् (?)। प्रिय इति हसति पिओ त्ति हसइ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org