________________
पण्डित-रघुनाथ-कवि-विरचित
स्त्रियामात् ॥ २८३ ॥ स्त्रियां वर्तमानस्य अन्त्यस्य हल: आत् स्यात्। उपानत् उवाणआ। द्यौः दिआ।
रो रा ॥ २८४ ॥ स्त्रियामन्त्यस्य रेफस्य रा इत्ययमादेशः स्यात्।धूः धुरा। गीः गिरा। चतस्रः चत्तारो चत्तारि । का काआ की।
इद्भयः स्सा-से ॥ २८५ ॥ इकारान्तेभ्यः किं-यत्-तद्भ्यो उसः स्सा से इत्येतावादेशौ वा स्याताम् । कस्याः किस्सा कीसे । पक्षे कीइ कीए की कीआ, 'टाङसू' (१६०) इति आदेशाः। "आदीतौ०' (१७४) इति आकारपक्षे काइ काए । इयं इमा। युष्मदस्मदोर्लिङ्गत्रये सदृशं रूपम् । या जा जी । याः जाउ जाओ जा। यस्याः जिस्सा जीसे जीइ जीए जीअ जीआ जाइ जाए। वाक वाआ।
न विद्युति ॥ २८६ ॥ अन्त्यस्य हल आकारो न स्यात् । विद्युत् विजू। दिक दिसा, 'दिमावृषोः०' (२८०) इति सः । असौ दिक अम् दिसा। अम्: अओ। मशेषमूकारस्त्रीलिङ्गवत् ।
॥ इति हलन्ताः स्त्रीलिङ्गाः ॥
नपुंसके स्वमोरिदमिणमिणमो ॥ २८७ ॥ क्लीबे सविभक्तिकस्येदमः इदं इणं इणमो इत्यादेशाः स्युः खमोः परयोः । इदम् इदं इणं इणमो । इमानि इमाई । पुनस्तद्वत् । शेष पुंवत् । किम् किं । कानि काई । पुनरपि । शेषं पुंवत् । तत् तं, 'अनपुंसके' (२४३) इत्युक्ते न सादेशः। तानि ताई। एतत् एदं । यत् जं। यानि जाई। अद: अह अमुं। अमूनि अमूई । 'न सान्त०' (२४२) इति प्राप्ते
___न शिरो-नभसी ॥ २८८ ॥ ___ एतौ पुंसि न स्याताम् । शिरः सिरं, 'अन्त्यस्यः' इति सोर्लोपः।
॥ इति हलन्ता नपुंसकलिङ्गाः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org