SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ प्राकृतानन्द उत्तरीया-ऽनीययोर्यस्य जो वा ॥ ८६ ॥ उत्तरीयशब्दस्य अनीयप्रत्ययस्य च यो यकारः तस्य जो वा स्यात् रमणीयः रमणिजो। कबन्धे बो मः ॥ ८७ ॥ अत्र बस्य मः स्यात् । लोपापवादः । कबन्धः कमंधो। टो डः ॥ ८८ ॥ टस्य अयुक्तस्य अनादिभूतस्य डः स्यात् । विटपः विडवो । सटा-शकट-कैटभेषु ढः॥ ८९ ॥ एषु टस्य ढः स्यात् । डापवादः । शकटं सअढो। _कैटभे वः ॥ ९ ॥ भस्य वः स्यात् । कैटभः केढवो, 'ऐत एत्' (६९) इति एत् । फो भः ॥ ९१ ॥ स्यात् । सफलः सभलो। प्रथम-शिथिल-निषधेषु ढः ॥ ९२ ॥ एषु थ-धयोः ढादेशः स्यात् । हापवादः । प्रथमः पढमो । शिथिल: सिढिलो । निषधः णिसढो। कुब्जेः खः ॥ ९३ ॥ अत्र आदेः वर्णस्य खादेशः स्यात् । कुनः खुज्जो। दोला-दण्ड-दशनेषु डः ॥ ९४ ॥ एषां आदेः डः स्यात् । दण्डः डंडो । दशनः डसणो। मन्मथे वः ॥ ९५ ॥ अत्र आदेः वः स्यात् । न्मो म्मः ॥ ९६ ॥ स्यात् । मन्मथः वम्महो, 'ख-घ' (५९) इति हः। दोहदे णः ॥ ९७ ॥ अत्र आदेः णः स्यात् । दोहदः णोहलो। लाहल-लाङ्गल-लाङ्गुलेषु वा णः॥ ९८ ॥ एतेषु शब्देषु आदेर्वर्णस्य णो वा स्यात् । लाहलः णाहलो। लाङ्गलः णांगलो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003397
Book TitlePrakrutanand
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1962
Total Pages108
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy