________________
पण्डित-रघुनाथ-कवि-विरचित स्फटिक-चिकुर-निकषेषु कस्य हः ॥ ७७ ॥ एषु ककारस्य हादेशः स्यात् । 'कग' (१०) इति कलोपापवादः ।
स्फटिके लः ॥ ७८ ॥ अत्र टस्य लः स्यात् । 'टो डः' (८८) इति वक्ष्यमाणस्यापवादः। 'उपरि०' (३६) इति सलोपः, स्फटिकः फलिहो । चिकुरः चिहुरो । निकषः णिहसो, 'नो णः०' (९) इति णत्वम्, 'शषोः०' (४४) इति सः।
सीकरे भः ॥ ७९ ॥ अत्र कस्य भः स्यात् । 'कग' (१०) इत्यस्यापवादः । सीकरः सीभरो।
गर्भिते णः ॥ ८॥ तस्य णः स्यात् । गर्भितः गम्भिणो ।
वसति-भरतयोहः॥ ८१ ॥ अनयोः तस्य हः स्यात् । लोपापवादः । भरतः भरहो।
ऐरावते च ॥ ८२ ॥ अत्र तस्य णः स्यात् । लोपापवादः । ऐरावतः एरावणो, 'ऐत एत्' (६९) इति एत् ।
प्रदीप्त-कदम्ब-दोहदेषु दोलः ॥ ८३॥ एषु अनादिभूतस्य दस्य लः स्यात् । कदम्बः कलंबो। दोहदः णोहलो। अनेति (अनादीति) किम् ? आद्यस्य मा भूत् । 'दोहदे णः' (९७) इति वक्ष्यमाणेन णः ।
गद्गदे रः॥ ८४ ॥ अत्र अयुक्तस्य दस्य रः स्यात् । 'उपरि०' (३६) इति दलोपः, गद्गदः गग्गरो।
पो वः ॥ ८५॥ पस्य अयुक्तस्य अनादिभूतस्य वा स्यात् । शपथः सवहो, 'ख-घ' (५९) इति हः। ननु पस्य लोपोक्तः कथं पस्य वविधिः? इति चेत्, उच्यते, लोपविधौ ‘प्रायः' (सू० १०) इत्युक्तेः यत्र लोपाभावस्तत्रैव अस्य प्रवृत्तिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org