________________
पण्डित रघुनाथ - कवि - विरचित
षटू - शावक - सप्तपर्णानां छः ॥ ९९ ॥
एषु आदेः छः स्यात् । षण्मुखः छम्मुहो । शावकः छावओ । सप्तपर्णः छत्तवण्णो, 'पो वः' (८५) इति वत्वम्, 'सर्वत्र ० ' ( ३४ ) इति रलोपः ।
१२
दशादिषु हः ॥ १०० ॥
एषु शस्य हः स्यात् ।
सङ्ख्यायां च ॥ १०१ ॥
सङ्ख्यावाचिशब्दसम्बन्धिदकारस्य रः स्यात् । एकादशः एआरहो । द्वादशः बारहो । त्रयोदशः तेरहो, शय्यादित्वाद् एत् । संज्ञायां वा ॥ १०२ ॥
संज्ञायां दशादेः शस्य हो वा स्यात् । दशमुखः दहमुहो दसमुहो । दशरथः दहरहो दसरहो ।
दिवसे सस्य ॥ १०३॥ हः स्याद् वा । दिवसः दिअहो दिअसो । द्वे रो वा ॥ १०४ ॥
द्रशब्दे रेफस्य लोपो वा स्यात् । इंद्रः इंदो इंद्रो । द्रुतः दुओ द्रुओ । सर्वज्ञतुल्येषु अस्य ॥ १०५ ॥
सर्वज्ञ इत्येवमाकृतिषु अस्य लोपः स्यात् । सर्वज्ञः सवज्जो | अत्र ज्ञे जकारञकारयोर्मध्ये कारलोपे 'शेषा०' (३५) इति द्वित्वम् । जानातेर्यानि सोपपदानि रूपाणि तत्रायं लोपः ।
मध्याह्ने हस्य ॥ १०६ ॥
लोपः स्यात् । वक्ष्यमाणोर्द्धस्थितेः (१०८) अपवादः ॥ ध्य-ह्योर्झः ॥ १०७ ॥
स्यात्। मध्याह्नः मज्झण्णो ।
Jain Education International
ह्र-ह्र-ह्मेषु न-ल-मां स्थितिरूर्वम् ॥ १०८ ॥
एषु त्रिषु अधः स्थितानां नकार-लकार-मकाराणां त्रिभ्य उपरि स्थितिः स्यात् । प्रह्लादः पल्हादो । अत्र ग्रहणं चिन्त्यम्, 'ह्र- स्न-ष्ण०' (४९) इति ण्हादेशे नस्य स्वयमेव उपरिष्टाद् (१०६) भूतत्वात् कौस्तुभः कोत्थुहो, 'औत ओत्' (७३) 'स्तस्य थः' (५७) 'ख-घ०' (५९) इति हः ।
For Private & Personal Use Only
www.jainelibrary.org