________________
बालशिक्षा-अष्टमः त्यादिप्रक्रमः । _ ओहाक् । ककारो 'हाग्रहोरवधौ न भवतीति विशेषणार्थः।जहाति। 'उभयेषामीकारो व्यञ्जनादावदः।' इत्वं वा वक्तव्यम् , जहितः, जहीतः, जहति । लोपः सप्तम्यां जहातेः, जह्यात् । हौ चात्वमित्वमीत्वं चेष्टम् , जहाहि, जहिहि, जहीहि । अजहुः । जिहासति । जेहीयते । इजहातेः तिव, हित्वा । विहाय । हितम् । हीनम् । हाङस्तु जिहीते, जिहाते, जिहते । जाहायते । हात्वा । हानः । इति परस्मैपदिनः।
डु दाञ् । ददाति, दत्तः, ददति । ददासि, दत्थः, दत्थ । ददामि, दद्वः, दद्मः। दत्ते, ददाते, ददते । दद्यात्, ददीत । देहि, दत्तात् । अददात्, अदत्ताम् , अददुः। भौवादिकस्य दाणो यच्छति । देङो दयते । दिवादौ दो अवच्छेदने, तस्य द्यति । एवं चतुर्णामसार्वधातुके तुल्यरूपं यस्य यत्पदं तस्य तदेव ज्ञेयम् । देङस्तु 'दिगि दयतेः परोक्षायाम् ।' दिग्ये, दिग्याते, दिग्यिरे।अदात्, अदाताम् , अदुः। अदित, अदिषाताम् , अदिषत। देयात्। दासीष्ट । रु० 'आङो दाञ् अनात्मप्रसारणे' इति, आदत्ते गृह्णातीत्यर्थः । तथा 'दाण सा चेचतुर्थ्यर्थे', 'समस्तृतीयायुक्त' इति वर्तते, दास्या सम्प्र. यच्छते स्वर्ण कामुकः, दास्यै ददातीत्यर्थः । दित्सति । देदीयते । दादेति, दादाति, दात्तः, दादति । दत्त्वा । प्रदाय । दत्तम् । द्यतेस्तु दित्वा दितम् । भ्वाद्यदाद्योर्दैप्-दापोस्तु दा संज्ञा प्रतिषेधार्थः पकारः । ताभ्यां दायति । दाति । अदासीत् । दायात् । दिदासति । दादायते । दात्वा । दातः।
दुधाञ् । दधाति । 'तथोश्च दधातेरि'ति चकारात् 'सध्वोच' लुप्ताकारस्य धात्रो सस्य धत्वं, धत्तः, दधति । धत्ते, दधाते, दधते। धत्से । दधातेर्हि, हित्वा । विधाय । विहितम् । शेषं दावत् । इत्युभयपदिनौ ।
दिवादौ-षो। स्यति। 'घाशाछासाधेटां वेति षछो सिच्लोपे, असात् असासीत् । सिषासति । सेसीयते । सित्वा । अवसितम् । साययति ।
छो । छयति । अच्छात् । अच्छासीत् । वा छाशोः', छित्वा, छात्वा । छितः, छातः। छाययति।
एवं शो।
ज्यादौ-ज्या । 'अहिखे (ज्ये) त्यादिना सम्प्रसारणम् । जिनाति, जिनीतः, जिनन्ति । जिज्यौ, जिज्यतुः, जिज्युः । जिज्यिथ, जिज्याथ । जीयात् । जजीयते । जित्वा । जीनः । ज्यानिः।
ज्ञा। जानाति, जानीतः, जानन्ति । जज्ञौ । रु० निहवे ज्ञा, शतमपजानीते, अपडत इत्यर्थः। मम जानीते, ज्ञानार्थे करणे षष्ठी, मया जानातीत्यर्थः । संप्रतिभ्यामस्मृती, संजानीते, अभ्युपगच्छतीत्यर्थः । मातुः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org