________________
बालशिक्षा-अष्टमः त्यादिप्रक्रमः। व्येञ् । व्ययति-ते। 'न व्ययतेः परोक्षायामिति नाकारः, संवि. व्याय। अगुणे संप्रसारणमस्त्येव । संविव्यतुः, संविव्युः।संविव्ययिथ । 'न व्य[य] तेरट् थलोरिति सिद्धे परोक्षाग्रहणं ज्ञापयति संप्रसारणविधिरत्रानित्य इति, तेन] संविव्ययतुरित्याद्यपि । वीयात् । वीयते । उपव्याय । 'संपरिभ्यां वेति संप्रसारणम् । संव्याय, संवीय । संवीतः। व्याययति ।
हृञ् । हयति-०ते । जुहाव, जुहुवतुः, जुहुवुः । जुहविथ, जुहोथ । अण, आह्वत् । लिम्पादीनामात्मने पदे वा। आह्वत, आह्वास्त । हूयात् । २० 'निसंव्युपेभ्यो हा।' नियते इत्यादि । स्पर्धयामाङः, मल्लो मल्लमाह्वयते। जुहषति । जोहयते । आहूय । आहूतः । हाययति । अहवत् । जुहावयिषति।
अदादौ- भा। भाति । अभात् , अभाताम् । ह्यस्तन्यनि वा स्यात्, अभान् , अभुः। ___ एवं यादयः । तत्रापि वा। वाति । निर्वातो वातः। वातादन्यत्र निर्वाणोऽग्निः । वाययति ।
वा जोऽन्तः, कम्पने पक्षे उपवाजयति । स्वमते वजतेः रूपम् ।
श्रा पाके । श्राति । श्रायत्यन्यत्र । शृतं क्षीरम् , शृतं हविः। श्राणा यवागः । श्रपयति । पाकादन्यत्र श्रापयति ।
पा पाति । अपासीत् । पातः। पालयति ।
ला। लाति । लापयति । रु० 'पूजाभिभवयोश्च लातेः', चकाराद्विप्रलम्भने च । जटाभिरालापयते, पूजामुपगच्छतीत्यर्थः । श्येनो वर्तिकामुल्लापयते, अभिभवतीत्यर्थः । कस्तामुल्लापयते, विसंवादयतीत्यर्थः । 'लीलोनलावन्तौ स्नेहद्रवीकरणे' इति पक्षे घृतं विलाळयति । स्वमते ललतेः रूपम्।
ख्या । ख्याति । अण् , आख्यत्।
मा । माति । माङस्तु मिमीते, मिमाते, मिमते । देवादिकस्य मीयते । मित्सति । मेमीयते । मित्वा । प्रमाय । मितम् ।
दरिद्रा। दरिद्राति । इकारो दरिद्रातेः, दरिद्रितः। दरिद्रियात् । चकासग्रहणमनेकखरोपलक्षणमित्याम् , दरिद्राञ्चकार । 'दरिद्रातेरसार्वधातुके' इत्याकारलोपः, परं 'यमिरमी'त्यादौ अन्तग्रहणात् दरिद्रातेरालोपो न स्यात्, आगमस्यानित्यत्वाद्विभाषैव, अदरिद्रीत्, अदरिद्रासीत् । दरिद्रिता । दरिद्यात् । दिदरिद्रिषति । दिदरिद्रासति । दरिद्यते । अदरिद्रिषातामित्यादि । दरिद्रयति । अददरिद्रत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org