________________
- बालशिक्षा-अष्टमः त्यादिप्रक्रमः । घेट्, पा पाने । 'विधेटोर्वा वक्तव्यम्' इति विशेषणार्थष्टकारः। धयति। पक्षे चण् , अदधत् । अधात् । अधासीत्। 'घाशाछासाधेटां वे'ति सिच्लोपो वा । धेयात् । धीयते । अधायि, अधिषाताम्, अधायिषातामित्यादि । धित्सति। देधीयते। दाधेति, दाधाति । 'उभयेषामीकार' इत्यादी दावर्जनादीकारो नास्ति, दात्तः। दाधति । धीतः । पिबति । अपात् । पिपासति । पेपीयते। पापेति, पापाति, पापीतः, पापति । पीत्वा । पीतम् । पाययति । अपीप्यत् । पातेस्तु अपासीत् । पायते । पातः। पालयति । __ पै ओवै शोषणे । पायति । अपासीत् । पायते । पातः। पाययति। अपीपयत् । उद्वायति । उद्वातः।
म्लै । म्लायति । 'वासंयोगादेरस्थ' इतिम्लेयात्, म्लायात्। 'आतोsन्तस्थासंयोगादिति नत्वम् , म्लानः, म्लानिः । म्लापयति।
एवं ग्लै । इनि तु ग्लपयति, ग्लापयति । सोपसर्गस्य प्रग्लापयति ।
ष्ट्यै स्त्यै द्वयोरुपादानादिह धात्वादेः षः सो न । ष्ट्यायति । तष्ट्यौ । स्त्यायति । तस्त्यौ । स्त्यानः । वा प्रस्त्यो मः', प्रस्तीमा, प्रस्तीतः।
क्षै। क्षायति । क्षामः।
घ्रा । जिघ्रति। अघ्रात् । अघ्रासीत् । 'घ्राध्मोरी', जेधीयते । प्रायते। 'हीघात्रोन्दनुदविदां वा', घ्रातः, घ्राणः। घापयति । जिघ्रतेवा, अजिनिपत [अजिघ्रपत्]।
ध्मा । धमति । ध्मायते । देध्मीयते। ना। मनति । इति परस्मैपदिनः।
च्युङित्यादि । गाडू श्यैङ् । गाते ३ । अगास्त । गायते । गातः। श्यायते । शीतं घृतम्, शीतो वायुः। संश्यानो वृश्चिकः, शीतेन संकुचित इत्यर्थः।
मेङ् । प्रणिमयते । प्रमित्सते । प्रमेमीयते। मित्वा । यपीत्वं वेष्यते, अपमित्य, अपमाय । मितः।
त्रै । त्रायते । त्रातः, त्राणः ।
प्यैङ् । आप्यायते । आपिप्ये, । 'प्यायः पिः परोक्षायाम् ।' इत्यात्मनेपदिनः।
वेञ् । वयति-ते। 'वा परोक्षायां वेत्रश्च वयिः।' उवाय, जयतुः, ऊयुः। उवयिथ । ववौ, ववतुः, ववुः। 'खपिवची'त्यादिना संप्रसारणम् । ऊयात् । वावायते । ऊयते । उत्वा । प्रवाय । उतः। ऊः, उवौ, उवः । वाययति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org