________________
बालशिक्षा - अष्टमः त्यादिप्रक्रमः।
अथ खरान्ताः । चुरादौ अदन्ताः खरादेशाः परि(र?)निमित्तकाः पूर्वविधि प्रति स्थानिवत् इति तेषामिनि लुप्ताकारस्य स्थानित्वाद्दीर्घ-गुणौ न स्तः, समानलोपत्वाच 'णि सन्वद्भावः, उपधाया हखश्च नास्ति ।
यथा-कथ । कथयति । अचकथत्। गण । गणयति । अजगणत्, अजीगणत्, 'ईच गणः।' स्पृह । स्पृहयति । अपस्पृहत् । साम । सामयति । अससामत् । अघ । अघयति । आजिघत् ।
__ इत्यदन्ताः । आदन्ता यथा-कै। 'सन्ध्यक्षरान्तानामाकारोऽविकरणे।' कायति। चकौ, चकतुः, चकुः। चकिथ । चकाथ । अकासीत्, अकासिष्टाम् , अकासिषुः । काता । रु० 'कर्मकर्तृस्थः खरान्तो धातुरद्यतन्यां वा ।' अकास्त, अकायि वा शिष्यः स्वयमेव । कायते। अकायि । अकासाताम् , अकायिषाताम् , इत्यादि । कास्यते, कायिष्यते । चकिवान् । चकामः(नः१)। चिकासति । चाकायते । चाकेति, चाकाति, चाकीतः। चाकति । कापयति ।
वि० गै। गायति । 'अगुणे दा मा गायति पिबति स्थास्यति जहातीनामीकारो व्यञ्जनादौ, आशिष्येकार', गीयते । गेयात् । गासीष्ट । जिगासति । जेगीयते । जागेति, जागाति । गीत्वा। यपि 'मीनात्यादिदादीनामाः' प्रगाय । गीतम् । गाङस्तु गायते । गातम्। - ष्ठा। तिष्ठति। तस्थौ। 'स्थासेति-सेधति-सिच-सञ्ज - ध्वञ्जामडभ्यासान्तरस्य षत्वम्', प्रत्यष्टात् । अस्थात्, अस्थाताम् , अस्थुः । स्थयात् । रु० प्रतिज्ञानिर्णयप्रकाशनेषु स्था', नित्यं शब्दमातिष्ठते, अङ्गीकरोतीत्यर्थः। त्वयि तिष्ठते विवादः, त्वयि निर्णय इत्यर्थः। तिष्ठते कन्या छात्रेभ्यः, खाभिप्रायं प्रकाशयतीत्यर्थः । समवप्रविभ्यः, संतिष्ठते इत्यादि, अप्रतिज्ञाद्यर्थमिदम् । उदोऽनूचंचेष्टायाम् , मुक्तावुत्तिष्ठते, आराधयतीत्यर्थः । वा लिप्सायाम, भिक्षुको धार्मिकमुपतिष्ठति-०ते, भिक्षामहं लभेयेति धार्मिकमुपतिष्ठतीत्यर्थः । 'अकर्मकश्चेति, भोजनकाले उपतिष्ठते। उपास्थित। 'स्थादोरिरद्यतन्यामात्मने', तस्य च 'स्थादोश्चेति न गुणः, स्थीयते। अस्थायि, अस्थिषाताम् , अस्थायिषातामित्यादि । तिष्ठासति । तेष्ठीयते । तास्थेति, तास्थाति । स्थित्वा । स्थितः । स्थापयति । अतिष्ठिपत् ।
____12
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org