________________
बालशिक्षा - अष्टमः त्यादिप्रक्रमः। दृहि वृहि । दहति । दृढो बलवान् । इंहितमन्यत् । 'वृहे खरेऽनिटि वाइति पक्षे पञ्चमलोपः, वर्हति, वृंहति । वृंहिता। वहक, बृहकः । परिवृढः प्रभुः । हितमन्यत् ।
स्कन्दिर । स्कन्दति। अस्कन्दत्। अस्कान्त्सीत्। 'अस्य च दीर्घ' इत्यत्र पृथग्योगानोपधाया अपि दीर्घत्वम् । स्कन्ता । चनीस्कद्यते। स्कत्त्वा, स्कन्वा । प्रस्कद्य । प्रस्कन्नः ।
दंशि। 'दंशिसञ्जिवञ्जिरञ्जीनामनि' इति नलोपे दशति। अदांक्षीत्। दंष्टा । दिदसति । दन्दश्यते । दष्टः।
षञ्ज । सजति । सञ्जिग्रहणात् षत्वे नलोपाभावे अभिषञ्जति । सङ्का । 'जान्तनशामनिटाम्' इति सक्त्वा । सक्तः। इति परस्मैपदिनः।
वञ्ज । परिष्वजते । 'ध्वञ्जर्वे'ति नलोपे परिषष्वजे, परिषष्वले । परिष्वङ्गा।
कम्पि । कम्पते। कम्पितः। 'लंगिकम्प्योरुपतापे'त्यादिना विकप्यते। विकपितः।
आङः शसि इच्छायाम् । आशंसते । आशंसुः । आशंस्यते । आशंसितम् । आङः पर एवायं प्रयुज्यते । शंसु स्तुतावित्यस्य प्रशस्यते। प्रशस्तम् । प्रशसेति ।
श्रंसु प्रमादे । श्रंसते । वञ्चिश्रंसीत्यादौ नीविधाने भ्रंसिसहचारिणो ग्रहणादस्य शाश्रस्यत एव । उषादिति । वञ्चिधेसीत्यादौ नीविधाने भ्रंसिसहचारिणो द्वाभ्यामपि स्यात् ।
अंसु भ्रंसु अवधंसने । अंसते । अद्यतन्यां द्युतादीनामित्युभयम्, असत्, अश्रंसिष्ट । शनीश्रस्यते।
ध्वंसु । ध्वंसते । अध्वसत् । दनीध्वस्यते । अम्भु । श्रम्भते । अश्रभत् ।
स्पन्दू । स्पन्दते । अस्पन्दत् । अस्पन्तः । अस्पन्दिष्ट । स्पन्ता। स्पन्दिता । वृतादित्वात् स्पसनोरुभयम् , इट् च तयोः परस्मैपदे नेष्यते, स्पन्त्स्यति, स्पन्दिष्यते। सिस्पन्सति, सिस्पन्दिषते। स्पन्त्वा, स्पन्दित्वा। प्रस्पन्ध । स्पन्नः । इत्यात्मनेपदिनः।
र । रजति, रजते। देवादिकाच रज्यति-० ते । रङ्गा । रक्त्वा , रङ्कस्वा । रक्तः। रजयति मृगान् । रञ्जुर्मूगरमणे अनुषङ्गालोपः। अन्यत्र रञ्जयति वस्त्रम् । इत्युभयपदी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org