SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ बालशिक्षा - अष्टमः त्यादिप्रक्रमः । मुत्कलापयतीत्यर्थः। 'समोऽकर्मकः।' सम्पृच्छते । पिपृच्छिषति । परिपृच्छयते । पृष्टः । पृच्छनीयमिह रूढित्वात्सम्प्रसारणम् । प्रच्छयति । अपप्रच्छत् । एवं वश्चू। किन्तु 'क्त्वि जुत्रश्चोरिट्' नित्यम् , ब्रश्चित्वा। विवृक्षति । इट् पक्षे तु अवश्चीत् । व्रश्चिता । वृक्णः, व्रश्चेः क च । टु मस्जी। मजति। अमाक्षीत्। 'मस्जि नशोधुटि' नागमे। मङ्क्ता। मक्त्वा , मक्त्वा । मनः। विच्छ । विच्छायति । विश्नः । इति परस्मैपदिनः। ओ लस्जी । लजते । लग्नः । इत्यात्मनेपदी । भ्रस्ज। भृजति-० ते। बभ्रज । बभज। भ्रष्टा। भ्रक्ष्यति। बिभ्रक्षति । बिभ्रजिषति । बरीभृज्यते । भृष्टः । इत्युभयपदी। - चुरादौ- लक्ष। विभाषितोऽयमित्येके । लक्षयति-ते। अललक्षत् । अथानुषङ्गिणः। 'अत एव वर्जनादिदनुबन्धानां धातूनां नास्तीति तस्य च कचिल्लोपो न स्यात् । यथा टु नदि । नन्दति । ननन्द । अनन्दीत् । निनन्दिषति। नानन्द्यते। नानन्ति । अनानन्त् । सौ अनानन्त्, अनानः। वा दधोरत्वात् । नन्दितम् । नन्दयति । अननन्दत् । णिदि । निन्दति । निनिन्द । नेनिन्द्यते । एवमिदनुबन्धाः। 'अनिदनुबन्धानामगुणे अनुषङ्गलोपः।' यथा मन्थ । मन्थति । मनाति, क्रयादिपाठात्।ममन्थ। 'परोक्षायामिन्धि श्रन्थि ग्रन्थि दम्भीनामेवेति नियमात् नलोपाभावे ममन्थतुः, ममन्थुः। अमन्थीत्। मन्थिता । मिमन्थिषति । मामथ्यते । मामन्थीति। मामन्ति । 'अगुणे नलोपः', मामत्तः। मामथति। 'थफान्तानां चानुषङ्गिणाम्' इति वा गुणी, मथित्वा, मन्थित्वा । मथितः। ममथ्वान् । ममथानः। वि० खेत्यादि। लगि। लंगति। लंगि-कम्प्योरुपतापशरीरविकारयोर्नलोप' इष्यते । विलग्यते । विलगितः। वच गतौ । वश्चति । वनीवच्यते । तृषि मृषीत्यादिना वश्चित्वा, वचित्वा, वक्त्वा । वक्तः। प्रलम्भने चौरादिकेन बटुं वश्चयते। लुञ्च् । लुञ्चति । लुचित्वा, लुश्चित्वा । .. अचेत्यादि रिवि रवि धवि । रिण्वति । रविः, अत्र वकारस्य धुत्वाभावादनुखारो नास्ति, णत्वमेव स्यात्, रण्वति, धण्वति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003395
Book TitleBalshiksha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages208
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy