________________
बालशिक्षा - सप्तमः संस्कारप्रक्रमः। वाह । वाहते । वाढं भृशम् , वाहितमन्यत् । गाहू । गाहते । विगाढा । विगाहिता । विगाढम् । मान् । मीमांसते । चौरादिकेन मानयति ।।
टु भ्राज, टु भ्रास, टु भ्लास दीप्तौ । भ्राजते। 'राजि-भ्राजि-भ्रासिभ्लासीनां वेति वचनादेत्वं पक्षे, भेजे । बभ्राजे । अविभ्रजत् । अबभ्राजत्। 'भ्रासभ्लासित्यादिना पक्षे यन्, भ्रास्यते, भ्रासते । शेषं पूर्ववत् ।
एवं भ्लास । अबभ्लासत् । नित्यम् । इत्यात्मनेपदिनः। राजु । राजति-०ते । रराज । रेजतुः। रराजतुः।
धावु गतिशुद्ध्यो । धावति । धौत्वा । धावित्वा । धौतः पटः । गतौ निष्ठायामडस्त्येव, धावितः।
चाय । चायति-०ते । चेकीयते । चायः किश्चेक्रीयिते। दास । दासति-०ते । वंसौ दावान् । दान् । दीदांसति-०ते। शान् । शीशांसति-०ते।
अदादौ - चकार । चकास्ति । चकास्तः । चकासति । अचकात् । अचकास्ताम् । यक्षादिश्चेत्यभ्यस्तत्वात् , अन उस् । अचकासुः । सौ अचकात्, अचकाः। चकासाश्चकार । अचचकासत् ।।
शास् । शास्ति । शासेरिदुपधाया अण् व्यञ्जनयोः, शिष्टः । शासति । शिष्यात् । शाधि हौ । अशात् । अशिष्टाम् । अशासुः । अशात् । अशाः। अशिषत् । शासिता। शिष्ट्वा । शासित्वा । शेशिष्यते। शिष्ठः । कथं शास्तिरित्यौणादिकोऽयम् । न शास्वृदनुबन्धानामित्यशशासत् । इति परस्मैपदिनौ।
आङः शासु इच्छायाम् । आशास्ते । पक्षे धातुसकारस्य धकारे लोपः, आशाध्वे । सस्य दत्वे । आशाद्ध्वे । आशास्यते । आशीशसत्।
दिवादौ-दीपी । दीप्यते । दीपेत्यादिना अदीपि । अदीपिष्ट । पूरी । पूर्यते । अपूरि । अपूरिष्ट । पूर्णः । पूरयति । पूर्णः, पूरितः । जूरी । जूर्यते । जूर्णः । इत्यात्मनेपदिनः।
राध, साध् । राध्यति-०ते । साध्यति-०ते। राधा । साद्धा । रानोति । सानोति । स्वादिपाठात् ।
चुरादौ- पूज् । पूजयति । अपूपुजत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org