________________
बालशिक्षा - सप्तमः संस्कारप्रक्रमः ।
७९
क्रीड् । क्रीडति । रु० अनुपरिभ्यां च क्रीडः । यथा - दिवमुपरि परि - क्रीडते ताडकेयम् । चकारादाङः, आक्रीडते । समोऽकूजने, संक्रीडन्ते कुमाराः । कूजने तु संक्रीडन्ति शकटानि, अव्यक्तं शब्दं कुर्वन्तीत्यर्थः । क्रीडयति । अचिक्रीडत् ।
रोड | रोडन्ति । रुरोडेत्यादि । एवं शौड़। शौडति । शुशौडेत्यादि । धूप धूपायति । दुधूप । धूपायाञ्चकार ।
जीव् । जीवति । जेजीवीति । वलोपे जेजेति । जेज्यूतः । भ्राजभ्रासेत्यादिना अजीजिवत्, अजिजीवत् ।
हेड् । हेडति । हेडयति । घटादिपाठबलात् ह्रस्वत्वे गुणो न स्यात् । अहिडि, अहेडि । हिडं २, हेडं २, केचित् हखत्वे दीर्घमिच्छन्ति, अहीडि । हीडं ही मित्यपि । इति परस्मैपदिनः ।
ह्लादी । ह्लादते । प्रह्लान्नः ।
रु० [ नाथ । ] आशिषि नाथः, सर्पिषो नाथते । आशिषोऽन्यत्र परस्मैपदमेव, नाथति माणवकम् ।
भ्राज । भ्राजते । भृजादीनां षः इत्यत्र राजिसहचरितस्य भ्राजेभ्रष्टः । अस्य तु भ्राक्तिरेव ।
वेष्ट । वेष्टते । वावेष्टि । वीष्टीत्यत्वपक्षे अववेष्टत्, अविवेष्टत् । क्षीवृ । क्षीवते । निष्ठायां अनुपसर्गात्फुल्लक्षीवेत्यादिना क्षीवः । भाम् । भामते । बाभाम्यते । कश्चिद्वंभाम्यत इत्येव । पूयी । पूयते । पूतः । प्वोर्व्यञ्जने ये ।
क्नूयी । क्नूयते । क्नूतः । अतिहीब्लीरी क्नूयी क्ष्माय्यादतानामन्तः पो यलोपो गुणश्च नामिनाम्, क्रोपयति ।
क्ष्मायी । क्ष्मायते । क्ष्मातः । क्ष्मापयति ।
- स्फायी ओ प्यायी वृद्धौ । स्फायते । स्फीतः । ईदनुबन्धबलात् स्फायः स्फीरादेशो भवत्यनित्य इति, स्फातः । स्फावयति, स्फायेर्वादेशः । आप्यायते । प्यायः पिः परोक्षायाम् । आपिप्ये । दीपेत्यादिना आप्यायि । आप्यायिष्ट । प्यायः पी खाङ्गे, पीनौ स्तनौ । आप्यानश्चन्द्रः ।
भाष । भाषते । अबी भषत् । अवभाषत् ।
कास्ट शब्दकुत्सायाम् । कासते । कासांचक्रे । काट भाट दीप्तौ । काशते । दैवादिकेन काश्यते । चकाशे । भासते । अवीभसत् । अवभासत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org