SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ बालशिक्षा - - सप्तमः संस्कारप्रक्रमः । लुट् । लोटति । अलोटीत् । पौषादिकस्य लुट्यति । अलुटत् । स्फुटिर विशरणे | स्फोटति । अनेनैव कौटादिकेन स्फुटति । अस्फुटीत् । स्फुट विकसने इत्यस्य स्फोटते । गुप् । गोपायति । जुगोप । गोपयाञ्चकार । गोप्ता । गोपिता । गोपायिता । ७१ विदा अव्यक्ते शब्दे । क्ष्वेदति । त्रि क्ष्विदा मोचने चेदिति दिवादिकेन क्ष्विद्यति । क्ष्विण्णः । क्ष्विण्णमनेन । क्ष्वेदितमनेन । 'शीपृधृषिक्ष्विदिमिदां निष्ठा सेट्' इति गुणः । कित् । चिकित्सति । चिकित्साचकार । 'संशये च प्रतीकारे कितः सन्नभिधीयते ।' सृप्ऌ । सर्पति । असृपत् । सप्त । सिसृप्सति । सनि चानिटीतिनाम्युपधानामगुणत्वम् । दृशिर् । पश्यति। ददर्शिथ । दद्रष्ठ । गृहशोरणि गुणः, अदर्शत् । अद्राक्षीत् । अद्राष्टाम् । अद्राक्षुः । द्रष्टा । द्रक्ष्यति । रु० समोऽकर्मकः । सम्पश्यते । समदृष्ट । दृश्यते । अदर्शि । अदृक्षाताम् । स्यसिजाशीरित्यादिना अदर्शिषातामित्यादि । द्रक्ष्यते । दर्शिष्यते । ददृशिवान् । दृष्टः । स्मृदृशी च सनन्तौ तु रुचादाविति दिदृक्षते । दरीद्रष्टि । 'प्रकृतिग्रहणे चेक्रीयित लुगन्तस्यापि ग्रहणम्' इति सृजिदृशोरित्यादिना अकारागमः । क्रुश् । क्रोशति । सणनिटः । सिडंतान्नाम्युपधाददृशः । अकुक्षत् । कोष्टा । क्रोष्यति । मिह । मेहति । अमिक्षत् । मेढा । वंसौ, मीढान् । मीढः । रुहू | रोहति । अरुक्षत् । रोढा । रूढः । रोक्ष्यति । रोहयति । पक्षे रोहेः पो वा । रोपयति व्रीहीन् । खमते रुह्यर्थेऽपि रुप्यते रूपम् । इति परस्मैपदिनः । Jain Education International भृजी । भर्जते । भृजः खरात् खरे द्विः । बभ्रजे । भृष्टः । तिष्ट । तेपते । तेप्ता । अतितेपत् । तिज् । तितिक्षति । अतितिक्षिष्ट । क्षमायामेव सन्निष्यते । अन्यत्र तेजते । तेजयति चास्त्रम् । ष्टुभ् । स्तोभते । उपसर्गात् सुनोति - सुवति - स्यति - स्तौति स्तोभतीनामडभ्यासान्तरस्य षत्वम् । अभ्यष्टोभिष्ट । तुष्टुभे । स्तुब्धः । गुप् । जुगुप्सते, निन्दायामेव सन् । अन्यत्र गोपते । गुपू । गोपायति । गुप्यति । गुप व्याकुलत्व इति पौषादिकेन । For Private & Personal Use Only www.jainelibrary.org
SR No.003395
Book TitleBalshiksha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages208
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy