________________
७२
बालशिक्षा-सप्तमः संस्कारप्रक्रमः। द्युत शुभ रुच दीप्तौ । द्योतते । द्युतादीनां 'पुषादिद्युतादी'त्यादिपाठबलादद्यतन्यामुभयपदम् । अद्युतत्। अद्योतिष्ट। एवं गुतादयः। तत्रापि वि० "तिस्वाप्योरभ्यासस्येति सम्प्रसारणम्। दिद्युते । देगुत्यते । शुभिरुचिभ्यां न स्यादित्यनयोश्चक्रीयिताभावः।
जि मिदा । मेदते । मेद्यति पौषादिकस्य । मिन्नः । प्रमिन्नः । प्रमेदितः।
जि विदा मोचने । खेदते । खेदिता । गात्रप्रक्षरणे पौषादिकेन खिद्यति । खेत्ता । स्विन्नः। प्रविन्नः। प्रस्खेदितः।
क्षुभ् ।क्षोभते। अक्षुभत् । अन्यत्र क्षुभ्यति । क्षुभ्नाति। अक्षोभीत् । वृतु । वर्तते।
अद्यतन्यां द्युतादीनां, वृतादेः स्यसनोस्तथा ।
आकृतिगणत्वादेव, श्वस्तन्यामुभयं कृपेः॥ तथा- अनात्मने पदस्थात्तु, वृतादेरिडू न स्ये सनि ।
श्वस्तन्यां च कृपेनॆव कृतादेवाऽपि सेऽसिचि ।। वय॑ति । वर्तिष्यते । विवृत्सति । विवतिषते ।
एवं वृधु मृधु । कृपू, कृपे रो लः। कल्पते । र......तेलश्रुतिरिति वचनात् चक्लपे । कल्प्तासि । कल्प्तासे । कल्पस्यति । कल्पिष्यति । चिक्लप्सति । चिकल्पिषते । क्लृप्तः । इत्यात्मनेपदिनः।
गुहू । गोहेरूदुपधायाः । गृहति-०ते । जुगूह । जुगुहे । तृतीयादेर्घढधभान्तस्य धातोरादिचतुर्थत्वं सध्वोः । अधुक्षत् । दुह दिह लिह गुहामात्मनेपदे च तवर्गे वा सणेव । सविकल्पितपक्षे सिजपि नास्तीति । अगूढ । अघुक्षत । अघुक्षाताम् । अघुक्षन्त । अगूढाः। अघुक्षथाः। अघुक्षाथाम् । अगृहम् । अघुक्षध्वम् । अघुक्षि । अगुह्वहि । अघुक्षावहि । अघुक्षामहि । इट् पक्षे, अगृहीत् । अगूहिष्ट । गूढा । गृहिता । गूढः । जोगूढि । ह्य० दिस्योः-अजोघोट् ।
त्विः । त्वेषति-०ते । त्वेष्टा । इत्युभयपदिनौ।
अदादौ-विद ज्ञाने । वेत्ति । वित्तः । विदन्ति । वेत्सि । वित्थः । वित्थ । वेनि । विद्वः । विद्मः।
आहोब्रुवस्तु पञ्चानां, नवानां तु विदेस्तथा। अडादयो निपात्यन्ते, त्यादीनां च यथाक्रमम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org