________________
बालशिक्षा-सप्तमः संस्कारप्रक्रमः । वच सन्देशने । वाचयति ।वचति । वक्तीत्यन्यत्र । इति परस्मैपदिनः। तप दाहे । तापयते । तपते । अन्यत्र तप्यते, तपति। वद भाषणे । वादयते, वदते । अन्यत्र वदति । इत्यात्मनेपदिनौ ।
॥ इत्यकारोपधाः ॥ अथ गुणोपधाः। तेच त्रिविधाः। इदुपधाः, उदुपधाः, ऊदुपधाश्चेति। एषां गुणिनि गुणः । इदुपधा यथा-चिट प्रेष्ये । चेटति । चिट्यते। चिचेट । चिचिटतुः। चिचिटुः। चिचेटिथ । चिचिटथुः । चिचिट । चिचेट । चिचिट । चिचिटिव । चिचिटिम । चिचिटे । अचेटीत् । अचेटिष्टाम् । अचेटिषुः। अचेटि । अचेटिषाताम् । अचेटिषत । चेटिता। चिचिड्वान् । चिचिटानः। चिटिता। 'गुणी क्त्वा सेडरुदादि-क्षुधकुशक्लिशगुधमृधमृडवदवसग्रहां व्यञ्जनादेयुपधस्यावो वेति चिटित्वा, चेटित्वा। तत्रैव 'संश्चेति वक्तव्य'मिति वचनात् चिचिटिषति, चिचेटिषति । चेचिट्यते । अभ्यस्तस्य चोपधाया नामिनः खरे गुणिनि सार्वधातुके इति गुणाभावे चेचिटीति । चेचेदि । चेचिट्टः । चेचिटति । चेटयति । अचीचिटत् ।
उदुपधा यथा-शुच् । शोचतीत्यादि पूर्ववत् । तथा भावादिकर्मणोर्वोदुपधात् । शोचितमनेन, शुचितमनेन । प्रशोचितः, प्रशुचितः।
ऊदुपधाः यथा-धृजु । धर्जतीत्यादि पूर्ववत् । धर्जित्वा, धृजित्वा । दिधर्जिषति। दरीधृज्यते । ऊदन्तोपधानां पूर्वस्य रक् रिक रीक् । दधुंजीति। दरिधृजीति । दरीधृजीति । दर्धक्ति । दरिधतिं । दरीधर्ति। धर्जयतीति । पक्षे इनि चणि झवर्णस्य झत् । अदीधृजत् । अदधर्जत् ।
त्रयाणां वि० श्युतिर क्षरणे । श्योतति । शिट्परोऽघोष इति शिट् लोपे चुश्च्योत । अच्युतत् । अश्श्योतीत् ।
षिधु गत्याम् । सेधति परिसेधति । अत्र 'सेधतेर्गताविति वचनान्न षत्वम् । गतेरन्यत्र प्रतिषेधति पापात् । सिषेध । असेधीत् । सेधिता। __षिधु संराद्धाविति पौषादिकस्य सिध्यति । असिधत् । सेवा, सिवा । सेधित्वा, सिधित्वा । सिद्धः।
षिधू शास्त्रे माङ्गल्ये च । अर्थान्तरे पुनरुदनुबन्धपूर्वक एव । अन्यथा तत्त्यागे सोऽनर्थकः स्यात् । अर्थान्तरेऽप्यनेनैव विकल्पस्य सर्वथैव सिद्धत्वात् । सेधति । उदनुबन्धत्वादसार्वधातुकचेट्यपि 'सृवृभृस्तुदुनुव एव परोक्षायाम्' इति नियमान्नित्यमिट् । सिषिधिव । सिषिधिम । सेता। सेधिता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org