SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ बालशिक्षा-सप्तमः संस्कारप्रक्रमः । 'वेश्वखने नने।' इति षत्वं विष्वणति । अवष्वणति । खनति । सखान । खेनतुः। सखनतुः। वान्तं मनः, खनितमन्यत्। ध्वनति। दध्वान।ध्वेनतुः। दध्वनतुः। ध्वान्तं तमः,ध्वनितमन्यत्। ध्वनयति। शब्दादन्यत्र ध्वानयति। चल्, चलति । चलयति शाखाम् , कम्पादन्यत्र चालयति । पत्ल, पतति । पित्सति । वञ्चिश्रंसिध्वंसिभ्रंसिकसिपतिपदिस्कंदामंतोनी । पनीपत्यते। पनीपत्ति । पतितः। सनि वेट्त्वान्निष्ठायामनिट्यपि। 'अपतिनिष्कुषोः।' इति वर्जनात् इट् । डुवमु, वमति । वान्त्वा, वमित्वा । वान्तः, वमितः । 'ग्लालावतुवमश्च । वमयति, वामयति । उपसर्गे तु उद्वमयति । तप्, सन्तापे । तपति । व्यञ्जनान्तानामित्यधिकारात् अस्य च दीर्घः। अताप्सीत् । 'धुटश्च धुटी'ति सिचलोपे अताप्ताम् । अताप्सुः। अताप्सी। अताप्तम् । अताप्त। अताप्सम् । अताप्स्व । अताप्स्म । अतापि । अतप्साताम् । अतप्सत । अतप्थाः। अतप्साथाम् । अतब्ध्वम् । अतपसि । अतपखहि । अतपस्महि । तप्ता । २० विउद्भयां तपः। अकर्मकात् वितपते । उत्तपते। वाङ्गकर्मकाच वितपते पाणिम् , उत्तपते पादम् , सन्तापयतीत्यर्थः । तपेस्तपः कर्मकात्, कत्तरि यण् । तप्यते तपस्तापसः । अनोस्तु न स्यात् । अनुतपते तपस्तापसः। अनोस्तपेरिति चेत् अन्वतप्त तापसेन । ऐश्वर्येऽर्थे विकल्पेन दिवादित्वाद् यत्वं आत्मनेपदं च । तप्यते, तपति। तप ऐश्वर्ये । वेति देवादिकेन । तातप्यते । तातपिता। अनेकखरत्वादिट् अस्त्येव । दह् , दहति । तृतीयादेर्घढधभान्तस्य धातोरादिचतुर्थत्वं सध्वोः, दादेघः। अधाक्षीत्। अदाग्धाम्। अधाक्षुः। अधाक्षी। अदाग्धम्। अदाग्ध । अधाक्षम् । अधाक्ष्व। अधाक्ष्म । अदाहि । अधक्षाताम् । अधक्षत। अदग्धाः। अधक्षाथाम् । अधरध्वम् । अधक्षि। अधक्ष्वहि । अधक्ष्महि । दग्धा । धक्ष्यति। दिधक्षति । दन्दह्यते । दन्दग्धि । अदन्दक। यम्, यभति । अयाप्सीत् । अयाब्धाम् । अयाप्सुः । यब्धा । त्यज्, त्यजति । अत्याक्षीत् । त्यक्ता। षद्ल, सीदति । सदेरमतेरिति षत्वम् । निषीदति । प्रसीदति न षत्वम् । 'दाहस्य चेति नत्वे निषन्नः। शद्ल, रुचा०शदेरनि । शीयते। शत्ता। शदेरगतौ तः। गाः शादयति, ग्रामं गमयतीत्यर्थः । गतेरन्यत्र फलानि शातयति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003395
Book TitleBalshiksha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages208
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy