________________
बालशिक्षा-सप्तमः संस्कारप्रक्रमः। विरेमिथ । विररंथ । यमिरमिनम्यादन्तानां सिरन्तश्च । व्यरंसीत् । व्यरंसिष्टाम् । व्यरंसिषुः । अरंस्त। अरंसाताम् । अरंसत । रन्ता । वनति तनोत्यादिप्रतिषिद्धेटाम् । 'घुटि पञ्चमोऽचातः' इति पञ्चमलोपः, आतश्च, अञ्च । रत्वा, रमित्वा । वा मः । विरम्य, विरत्य । रतः। रंरमीति । रंरन्ति । रंरन्तः। ... यम् , यच्छति। अयंसीत् । यन्ता। रुघा० आङो यमहनौ स्वाङ्गकर्मको च । अकर्मकात् आयच्छते, स्वाङ्गकर्मकाच आयच्छते पादम् । उद्वाहे उपयम । उपयच्छते कन्याम् , विवाहयतीत्यर्थः।
हनेः सिच्यात्मने दृष्टः सूचनेऽर्थे यमेरपि । विवाहे तु विभाषैव सिजाशिषोर्गमेस्तथा ॥ उदायत । उपायत । उपायंस्त । यमयति । परिवेषणे तु यामयति ।
णम् , नमति । अनंसीत् । नन्ता । नत्वा, प्रणम्य, प्रणत्य । नतः। रुचा०स्तु नमी। स्वयं नमते दण्डः, खयमेव नमयति, नामयति । उपसर्गे तु उन्नमयति । . गम्ल, गच्छति । जगाम । 'गमहनजनखनघसामुपधायाः खरादावनन्यगुणे।' इत्युपधालोपे जग्मतुः। जग्मुः। जगमिथ । जगन्थ । अगमत् । गन्ता। गमिष्यति ।गम्यते । अगामि । गंस्यते। 'गमहनविदविशदृशांति कन्सौ वेट्। जग्मिवान् । जगन्वान् । जग्मानः। गत्वा, आगम्य, आगत्य। गतः। जिगमिषति । जङ्गम्यते । जङ्गमीति । जङ्गन्ति । जगन्तः। जङ्गमति । रुचा० समोऽकर्मकः । सङ्गच्छते। 'सेगमः परस्मै।' इति परस्मैपदिन एवेट। 'सिजाशिषोर्गमस्त च' इति वा पञ्चमलोपः। समगत। समगस्त । सङ्गस्यते। सञ्जिगांसते । गमयति । रुचा० गमिन् क्षान्तौ आद एव ।क्षान्तिरिह प्रतीक्षा । मामागमयख, प्रतीक्षखेत्यर्थः।
जप, जपति । जपिवमिभ्यां वा । जप्तः, जपितः। 'जपादीनां च ।' इत्यनुखारः। जञ्जप्यते । जप जभ भज दह पश दंश षडेते जपादयः।
हसे, हसति। जहास । अहसीत्। एदनुबन्धत्वाद न पाक्षिको दीर्घः। लगे, लगति । लग्नं सक्तम् , लगितमन्यत् । लगयति।
फण, फणति । पफाण । 'भ्रमत्रसखनफणस्यमां वेति फेणतुः। पफणतुः। फणयति । गतेरन्यत्र फाणयति फाण्टम् । ___ स्यम, वन, ध्वन शब्दे । स्यमति । सस्याम । स्येमतुः। सस्यमतुः। स्वन्त्वा,स्यमित्वा। 'खपिस्यमिवेत्रांचेक्रीयते।'इति सम्प्रसारणं सेसिम्यते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org