________________
बालशिक्षा - सप्तमः संस्कारप्रक्रमः ।
६१
लड-लड(ल)योरैक्यम् । लडति । ललति । ललयति जिह्वाम् । जिह्रो - न्मन्धनादन्यत्र लालयति बालम् ।
भण, भणति । 'अतोऽन्तोऽनुखारोऽनुनासिकान्तस्ये' ति बम्भयते । 'भ्राजभ्रासमाषदीपजीवमीलपीडकणरणवणभणश्रणहठे लुपां चे'ति अबीभणत् । अब भाणत् ।
कनी, कनति । कान्तः । 'पञ्चमोपधाया त्रुटि चागुण' इति दीर्घः ।
चम् छम् । चमति । 'ष्ठिवु क्लम् वाचमामनी' ति आचामति । मन्तत्वाद् न पाक्षिको दीर्घः । अचमीत् । चान्त्वा, चमित्वा । चान्तः । घटादिपठितत्वादमन्तानां मानुबन्धत्वं सिद्धमेव । इह तु 'न कम्यमचम' इति प्रतिषेधात् चामयति । छमति । 'न सेटोऽमन्तस्यावमिकमिचमामिति न दीर्घः । अच्छमि । छमयति । एवं जमुझमुप्रभृतयः सेटोऽमन्ताः ।
क्रमु, 'क्रमः परस्मै' इत्यनि दीर्घः । क्रामति । 'भ्रास्म्लासभ्रमुक्रमुक्लमुत्रसित्रु टिलषियसिसंयसिभ्यश्च वा' । इति क्रम्यति । क्रमिता । क्रम्यते । अक्रमि । क्रमिष्यते । क्रमेः क्त्वाप्रत्यये वा । क्रन्त्वा, क्रान्त्वा क्रमित्वा । क्रान्तः। चिक्रमिषति । गत्यर्थात् कौटिल्य एव, भृशं पुनः पुनर्वा कुटिलं क्रामति । चङ्क्रम्यते । चङ्क्रमीति । चङ्कन्ति । 'पञ्चमोपधाया त्रुटि वा गुणे इति दीर्घे चङ्कान्तः । चङ्कमति । रुचादौ वृत्त्युत्साहताय - नेषु क्रमः । वृत्तिरप्रतिषेधः । उत्साहश्चेतसिको धर्मः । तायनं स्फीतता । प्राज्ञस्य क्रमते बुद्धि:, न प्रतिहन्यते इत्यर्थः । अध्ययनाय क्रमते, उत्सहते इत्यर्थः । नीतिमति श्रियः क्रमन्ते, स्फीता भवन्तीत्यर्थः । एष्वेवार्थेषु उपसर्गेभ्यश्चेत् परोपाभ्यामेव । रुचादौ आङो ज्योतिरुद्गमे । ज्योतिषां ग्रहनक्षत्रादीनां उद्गमने इत्यर्थः । गगनमाक्रमते रविः, उद्गच्छतीत्यर्थः । वेः पादाभ्यां द्विवचनस्यातन्त्र्यात्पादैरपि । साधु विक्रमते हंसः, सुष्ठु विक्रमतेऽश्वः । प्रोपाभ्यामारम्भे- प्रक्रमते, उपक्रमते भोक्तुम्, आरभत इत्यर्थः । अनुपसर्गे वा । क्रामति, क्रमते । 'सुक्रमिभ्यां परस्मै ।' इति परस्मैपदिन एवेट् । प्राक्रंस्त, प्रक्रन्ता । प्रचिक्रंसते । क्रमयति । लघुपूर्वोऽय् यपि सङ्क्रमय्य ।
रमु, रमते । 'व्यापरिभ्यो रमः परस्मैपदम् ।' विरमति इत्यादि । सकर्मकादपि देवदत्तमुपरमति ।
नित्यात्वतां खरान्तानां सृजिदृशोस्य वेट् थलि । तृचि नित्यानिटः स्फ (?) श्वेत् वेटां नित्यमिद्र थलि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org