________________
बाल शिक्षा- सप्तमः संस्कारप्रक्रमः । स्यसिजाशीःश्वस्तनीषु भावकर्मार्थकासु च ।
खरहनग्रहदशामिडू वेज्वचेति वक्तव्यम् ॥ - अपाठिषातामित्याद्यपि । पाठयिष्यते । पाठिष्यते । पाठितः। पिपाठयिषतीत्यादि।
अथ विशेषाः। 'द्वितीयचतुर्थयोः प्रथमतृतीयौ हो जः।' 'कवगर्व्य चवर्गः।' इत्यभ्यासस्यादेशाः सार्वत्रिकाः। तदभ्यासस्यादेशिनां संयोगादीनां च परोक्षायां न एत्वं अभ्यासलोपश्च । यथा-गदति । जगाद । जगदतु, जगदुः। 'अतीण घसैकखरान्तामिड्रवन्सावित्यभ्यासेन अनेकखरान्नेट् । जगद्वान् , जगदानम्।
संयोगादयो यथा- ध्वज । ध्वजति । अभ्यासस्यादिव्यञ्जनमवशेष्यं अनादिलोपनीयमित्यर्थः। दध्वाज । ध्वाजयति । अदिध्वजत् । संयोगे पूर्वस्य गुरुत्वात् 'दीर्घोऽलघोरिति न दीर्घः।
शसु प्लुतगती, शसु हिंसायाम् । शसति। 'न शसददवादिगुणिनामिति प्रतिषेधात् विशशंस । विशशंसतुः। विशशंसुः। उदनुबन्धस्य तु-शस्त्वा, शसित्वा, शस्तः ।
वद स्थैर्ये । वदति।ववाद। वादीनामपि प्रतिषेधात्, ववदतुः, ववदुः। 'वदव्रजरलन्तानां वेति नित्यं दीर्घः। अवादीत् । वद्यते । वदितम् । अयजादित्वात् संप्रसारणाभावः।
व्रज, व्रजति । अव्राजीत् ।
चर, चरति । अचारीत् । चूर्तिः। चञ्चूयते। व्यञ्जनाभावे उरोऽप्यभावः। 'अभ्यस्तस्य चोपधाया नामिनः खरे गुणिनि सार्वधातुके' इति गुणाभावे चञ्चुरीति । चञ्चोति । चञ्चतः। चचरति । रुचादौ उदः सकर्मकश्वर । रुचादित्वात् आत्मनेपदम् । कुटुम्बमुच्चरते, उत्क्रम्य गच्छतीत्यर्थः । समस्तृतीयायुक्तः। रथेन सञ्चरते।
दल त्रिफला विशरणे । फल निष्पत्तौ । फलति । पफाल। 'तृफलभजत्रपश्रन्थिग्रन्थिदम्भीनां चेति फेलतुः। फेलुः । अफालीत् । पम्फुल्यते। आदनुबन्धस्य तु - अनुपसर्गात् फुल्लक्षीवकृशोल्लाद्याः। फुल्लः । फुल्लवान् । भावे फुल्लमनेन, फलितमनेन । आदिकर्मणि क्तः। प्रफुल्लः। प्रफुलितः। कथमुत्फुल्लः सम्फुल्लः? फुल्ल विकसने इत्यचा सिद्धम् ।
__ज्वर, ज्वरति । ज्वरयति । 'ज्वलमलनमोऽनुपसर्गा वा ज्वलयति, ज्वालयति । उपसर्गे तु प्रज्वलयति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org