________________
बालशिक्षा - सप्तमः संस्कारप्रक्रमः। वद्, वदति । 'खपिवचियजादीनां यण् परोक्षाशी:ब्बिति अगुणे सम्प्रसारणम्।उवाद । ऊदतुः। ऊदुः। उवदिथ। अवादीत् ।उद्यात्। उद्यते। वदिषीष्ट । उदित्वा। उदितम् । रु० ज्ञानयत्नोपच्छन्दनेषु वदः । ज्ञानेवदते पतञ्जलिर्व्याकरणे। यत्ने-क्षेत्रे वदते। उपच्छन्दने-कर्मकरानुपवदते प्रलो(१)पत इत्यर्थः। अनोरकर्मकः । अनुवदते कठः कलापस्य । अनुशब्दः सादृश्ये पश्चादर्थे वा । यथा कलापो वदति तथा कठ इत्यर्थः । अथवा कलापस्य पश्चात् कठो वदति इत्यर्थः । विमतौ- विविधा नानाविधा मतिर्विमतिः। गेहे विवदन्ते, विमतिपतिता विचित्रं भाषन्त इत्यर्थः । व्यक्तं सहोक्तौ । सम्प्रवदन्ते ग्राम्याः, व्यक्ताक्षरं युगपद्वदन्तीत्यर्थः ।
वस, वसति । उवास । ऊषतुः । ऊषुः । उवसिथ । उवत्थ । सस्य सेऽसार्वधातुके तः। अवात्सीत् । अवात्ताम् । अवात्सुः। वत्सा । वत्स्यति । उष्यात् । उष्यते । वत्सीष्ट । उषित्वा । उषितम् ।
इति परस्मैपदिनः। यती, यतते । यतेते । यतन्ते । अयतिष्ट । यत्यते । अयाति । यत्तः। दद, ददते । ददन्ते। हद्, हदते । अहत्त । हत्ता। पच, व्यक्ती[करणे]। पचते । पक्ता। त्रपू, त्रपते । त्रेपे । त्रप्ता । त्रपिता । त्रप्तः।
जभ, 'रधिजभोः स्वरे।' इति नकारागमः। जम्भते । जजम्भे। जम्भिता । जञ्जभ्यते । जम्भयति ।
पण, गुपूधूपविच्छिपणिपनेरायः। पणायते। पणायाञ्चके । पेणे । आयादयो असार्वधातुके वा । एवं पन च ।
कमु, कामयते। कमेरिनड्कारितं च । असार्वधातुके वा। चकमे। कामयामास । अचकमत । अचीकमत् । कमिता । कामयिता । कान्त्वा। कमित्वा। कामयित्वा । कान्तः, कमितः। काम्यते। कामयति। अचीकमत् ।
दय, दयते । दयाश्चके। बध्, बन्धने । बीभत्सते। निन्दायामेव सन् । अन्यत्र बधते। बधिता।
रम, आरभते।आरेभे। आरब्ध। आरप्साताम् । आरप्सत। आरब्धा। आरप्स्यते । सनि मिमीमादारभलभशकपतपदामिः स्वरस्य । आरिप्सते। आरम्भि । आरम्भयति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org